________________
:-178 :
Jinabhadra Gani's
[ The third
र्थानामनुस्मर्ताऽवस्थित आत्माऽभ्युपगन्तव्यः, अन्यथा " यत् सत् तत् सर्वं क्षणिकम् " " क्षणिकाः सर्वे संस्काराः " " निरात्मानः सर्वे भावाः" इत्यादि सर्वक्षणिकता दिविज्ञानं नोपपद्येत, तदभ्युपगमे च स्वमतत्यागप्रसक्तिः । अथवा, क्षणिकं विज्ञानमिच्छतैकस्यपि विज्ञानस्य युगपदनेकार्थता - सर्वभवनान्तर्गतार्थग्राहिताऽभ्युपगन्तव्या येन सर्वक्षणिकता दिविज्ञानमुपपद्यते, न चैतदिष्यते, दृश्यते वा । " विण्णाणावत्था व त्ति " यदिवा, अवस्थानमवस्था, विज्ञानस्यावस्था विज्ञानावस्थाऽभ्युपगन्तव्या भवति । इदमुक्तं भवति - विज्ञानस्यानल्पकल्पाग्रशोऽवस्थानमेष्टव्यम् येन तत् सर्वदा समासीनमन्यान्यवस्तुविनश्वरतां वीक्षमाणं सर्वक्षणिकतामवगच्छेदिति सर्वं प्रागेवोक्तमेव । एवं चाभ्युपगमे विज्ञानसंज्ञामात्रविशिष्ट आत्मैवाभ्युपगतो भवति ।
"
अथैतद् बहुविज्ञानप्रभवादिकं नेष्यते, तर्हि प्रतीत्यवृत्तिविघातः प्राप्नोति । इदमत्र हृदयम् — कारणं प्रतीत्याश्रित्य कार्यस्य वृत्तिः प्रवृत्तिरुत्पत्तिरिति यावत् न पुनः कारणं कार्यावस्थायां कथञ्चिदप्यन्वेति इत्येवं सौगतेरभ्युपगम्यते । इत्थं चाभ्युपगम्यमानेऽतीतस्मरणादिसमस्तव्यवहारोच्छेदप्रसङ्गः । एवं हि व्यवहारप्रवृत्तिः स्याद् यद्यतीतानेकसंकेतादिज्ञानाश्रयस्ततद्विज्ञानरूपेण परिणामादन्वयी आत्माऽभ्युपगम्यते । तथाभ्युपगमे च सति प्रतीत्यवृच्यभ्युपमविधातः स्यादिति । ननु यदि विज्ञानस्य क्षणविनाश एते दोषाः प्रसजन्ति, तर्हि क्कामी दोषा न भवन्ति ? इत्याह-- "न उठियेत्यादि" न त्वस्मभ्युपगते जीवेऽभ्युपगम्यमान एते दोषाः प्रजन्ति । कथंभूते - जीवे स्थितसंभृतच्युतविज्ञानमये - कथञ्चिद् द्रव्यरूपतया स्थितम्, कथञ्चित्तत्तरपर्यायेण संभूतम्, कथञ्चित्पुनः पूर्वपर्यायेण च्युतं विनष्टं यद् विज्ञानं तन्मय इत्यर्थः । तस्मादमुमेवोत्पाद-व्यय- धौव्ययुक्तं शरीरादर्थान्तरभूतमस्मदभ्युपगतमात्मानं समस्तव्यवहारसिद्ध प्रतिपद्यस्वेति ॥ १३० - १३१ (१६७८१६७९) ॥
टीका - मतेर्मतिज्ञानस्य विधानानि नानाभेदरूपाणि तस्य यथोक्तरूपस्यात्मनः प्रवर्तन्ते । कथंभूतानि ? इत्याह-विचित्रो योऽसौ मतिज्ञानावरणक्षयोपशमस्ततो जातानि अत एव स्वकारणभूतक्षयोपशमवैचित्र्याद् विचित्ररूपाणि । तथा, पर्यायरूपतया क्षणिकानि, द्रव्यरूपतया तु नित्यत्वात्
,