________________
Vada]
Gañadharavida
'
.: 143:.
Vasudbadi bhūta samudaya sambhūta cetaneti tava sarkā i Pratyekamadristā’pi khalu madyāngamada iva samudaye 1110211(1651) Yathā madyānigeşu mado viśvagadrişto'pi samudaye bhūtva i Kālāntare vinaśyati tathả bhūtagaņe’pi caitanyam |110311 (1651)]
Trans.-102-103 Your presumption is that consciousness ( cetana) is produced from the collection (samudaya) of bhūtas like prithivi etc. because like intoxication ( mada) though not found in each separate constituent, it is apprehended in the collection ( of those constituents). Just as intoxication, though not present in each separate constituent of wine ( madya ) is produced in the collection of these constituents and disappears after a particular period of time, similarly consciousness (caitanya ) is also produced in the collection of bhūtas and perishes as time passes ( 1650–1651 ).
टीका-वसुधा पृथ्वी, आदिशब्दादप्-तेजो-वायु-परिग्रहः, वसुधादय एव भवन्तीति कृत्वा भूतानि वसुधादिभूतानि, तेषां समुदयः परस्परमीलनपरिणतिवसुधादिभूतसभूदयः, तस्मात् प्रागसती संभूता संजाता, चेतनेत्येवंभूता तव शङ्का । सा च चेतना पृथिव्यादिभूतेषु प्रत्येकावस्थायामदृष्टापि धातकीकुसुम-गुडो-दकादिषु मद्याङ्गेषु मद इव तत्समुदाये संभूतेति प्रत्यक्षत एव दृश्यते । तदेवमन्वयद्वारेण चेतनाया भूतसमुदायधर्मता दर्शिता । अथ व्यतिरेकद्वारेण तस्यास्तां दर्शयितुमाह-" जह मजंगेसु इत्यादि " यथा मद्याङ्गेषु मदभावः प्रत्येकावस्थायामदृष्टोऽपि तत्समुदाये भूत्वा ततः कियन्तमपि कालं स्थित्वा कालान्तरे तथाविधसामग्रीवशात् कृतश्चिद् विनश्यति,तथा भूतगणेऽपि प्रत्यकसमचैतन्यं भूत्वा ततः कालान्तरे विनश्यति। ततोऽन्वयव्यतिरेकाभ्यां निश्चीयते-भूतधर्म एष चैतन्यम् ।
__इदमत्र हृदयम्-यत् समुदायिषु प्रत्येकं नोपलभ्यते तत्समुदाये चोपलभयते, तत तत्समुदायमात्रधर्म एव, यथा मद्याङ्गसमुदायधर्मो मदः । स हि मद्याङ्गेषु विश्वग्नोपलभ्यते, तत्समुदाये चोपलभ्यते, अतस्तद्धर्मः । एवं चेतनापि भूतसमुदाये भवति, पृथग् न भवति, अतस्तद्धर्मः ।