SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Jinabhadra Gani's कम्मे तुह संदेहो मन्नसि तं नाणगोयराईयं । तुह तमणुमाणसाहणमणुभूइमयं फलं जस्स ॥ ६३ ॥ (१६११) .: 84: [ The second Kamme tuha sandeho mannasi tam nāṇagoyarāîyam | Tuha tamanumāna sāhanamanubhūimayam phalam jassa || 63 (1611) [ कर्मणि तब संदेहो मन्यसे तज्ज्ञानगोचरातीतम् । तव तदनुमान साधनमनुभूतिमयं फलं यस्य ॥ ६३ ॥ ( १६११ ) Karmani tava sandeho manyase tajjnanagocarātītam | Tava tadanumāna sādhanamanubhūtimayam phalam tasya||63(1611)] Trans. - 63 You have a doubt about ( the existence of ) the Karman. You think it to be beyond the range of knowledge. That (Karman) of which experience is the fruit, is provable ( to you ) by means of anumāna. (1611 ) तव टीका - हे आयुष्मन्नग्निभूते ! ज्ञानावरणादिपरमाणुसंघातरूपे कर्मणि संदेहः, यतः प्रत्यक्षा-नुमानादिसमस्त प्रमाणात्मकज्ञानगोचरा तीतमेव तत् त्वं मन्यसे, तथा हि-न तावत् प्रत्यक्षं कर्म, अतीन्द्रियत्वात्, खरविषाणवत्, इत्यादि प्रमाण विषयातीतत्वं प्राग्वज्जीवस्येव कर्मणोऽपि समानप्रायत्वाद् भावनीयमिति । तदेतत् सौम्य ! मा मन्थास्त्वम्, यतो मम तावत् प्रत्यक्षमेव कर्म, तवाप्यनुमानं साधनं यस्य तदनुमानसाधनं वर्तते तत् कर्म, न पुनः सर्वप्रमाणगोचरातीतम् । यस्य किम् ? इत्याह- " अणुभूइमयं फलं जस्स त्ति " सुख-दुःखानामनुभूतिरनुभवनं तन्मयं तदात्मकं फलं यस्य शुभा - शुभकमर्ण इति । अनेन चेदनुमानं सूचितम् - अस्ति सुख-दुःखानुभवस्य हेतुः, कार्यत्वात्, अङ्करस्यैवेति । अथ यदि भवतः प्रत्यक्षं कर्म, तर्हि मयापि तत्प्रत्यक्षं कस्माद् न भवति ? इति चेत् । तदयुक्तम्, न हि यदेकस्य कस्यचित् प्रत्यक्षं तेनापरस्यापि प्रत्यक्षेण भवितव्यम् । न हि सिंह - सरभ - हंसादयः सर्वस्यापि लोकस्य प्रत्यक्षाः, न च ते न सन्ति बालादीनामपि तत्सर्वस्य प्रसिद्धत्वात् । तस्मादस्ति कर्म, सर्वज्ञत्वेन मया प्रत्यक्षीकृतत्वात् भवत्संशय विज्ञानवदिति । "
SR No.011044
Book TitleGandharwad
Original Sutra AuthorN/A
AuthorRatnaprabhvijay, D P Thaker
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages579
LanguageEnglish
ClassificationBook_English
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy