________________
अनातकर्तृका नाऽप्रामाण्यानुपगः । दृश्यते ह्यनुमानान्निश्चित्य प्रवर्तमानस्य प्रमातुरनुमानपूर्विका प्रवृत्ति ॥३॥ नापि तुर्यः । प्रत्यक्षवदनुमानस्वार्थादुत्पत्तेरनुभूयमानत्वात् ॥४॥ नापि पञ्चम । तद्वत् सामान्यविशेषात्मकार्थगोचरत्वात् तस्य । न हि अवस्तुभूताऽपोहगोचरमनुमानं सौगतवज्जनैरिष्टम् । तत्र तद्गोचरत्वस्यानगीकाराद् ॥५॥ नापि षष्ठः । यतो वाध्यमानत्व कि सत्यानुमानस्य तदाभासस्य वा । नाद्य. सत्यघूमादिसाधनादग्न्याद्यनुमाने बाध्यमानत्वस्यासम्भवात् । तदाभासस्य तु तत्सम्भवे तस्यैवाप्रामाण्यं युक्तम् । न सत्यानुमानस्य । अन्यथा प्रत्यक्षामासस्य वाध्यमानत्वेनाऽप्रामाण्योपलम्भात् सत्यप्रत्यक्षस्याप्यप्रामाण्यापत्ति. ॥६॥ सप्तमोऽप्यसिद्धः । तर्काख्यप्रमाणस्य तद्ग्राहकस्य सद्भावात् । तर्कप्रमाणस्य हि सार्वत्रिकसम्बन्धप्रतिपत्तावपि सामार्थ्यस्वीकारात् ॥७॥ किञ्च, अनुमानस्योपद्रवस्तत्स्वरूपाभावान्निरवद्यतल्लक्षणाभावाद्वा ? नाद्य । तत्स्वरूपस्य सकलजनप्रतीतत्वाद् यतः
गोपालोऽपि प्रबलविगलद्वाप्पविन्दुप्रवन्धे नेत्रे कर्तुमधुरमधुयुग्मञ्जरीम्लानिहेतो. । धूमात् पीडां कचिदपि समालोक्य मानात् प्रदेशे जानात्येव ज्वलनमखिल क्षिप्तशङ्काविलास ॥२
कथ चानुमानस्वरूपाभावे 'प्रत्यक्षमेव प्रमाणमगौणत्वात्' इत्यनुमानं वदतस्तव वचनविगेधो न स्याद् ? तथा च
सद्भावमस्यति सदाऽनुमितेर्मतस्य स्वीयस्य सिद्धिरनयैव च सतनोति । आभात्यलौकिकममुष्य मीपिलोके लोकायतन्य सकल चरित तदेतत् ।। प्रामाण्यमितरच्चेह त्वत एवेति कापिला । प्रामाण्य च स्वतोऽन्यच्च परतो जैमिनीयका ॥ अप्रामाण्यं प्रामाण्य च बौद्धा स्वपरतो विदुः । उभय परतो योगा जैनानां [तु यथायथम् ॥
१. नाति निरपति द्वितीय । हेनुग्रहणमन्यधन्मरण कार णक माध्यविनानमिन्यादेनिरवद्यतल्लक्षणस्य मसार । सगावाचि अनुमानम्य धर्मी धर्मस्तासमुदायो वेन्यपि न प्रयोगकालापेक्षया माध्यस्य मैदान । व्याप्ती हि माय धमनमान्यम् , प्रयोगाले तु तद्विशिष्ट प्रसिद्धो धर्मात्यभिधानात् ।
निजमाने तोरन्न्ययो वा न्यान । यदपि मूलानुमानविषयापहारिण इत्यादिप्रत्यपारिक मन्यामन्यामानि प्रयुकेऽनुमानविरोधाद्यसम्भवात् । इति नास्तिकतिरस्कार ।