________________
विविधमतस्थापकोत्थापकानुमानसङ्ग्रहः हहेतोविरुद्धाव्यभिचारिणो वा सर्वत्रानुमाने सम्भाव्यमानत्वाच्च दुष्प्राप प्रामाण्यम् । तदुक्तम् -- -
विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात् । । तद्वतोऽनुपपन्नत्वादनुमानकथा कुत. ॥ अनुमानविरोघो वा यदि वेष्टविघातकृत् । विरुद्धाव्यभिचारात्त सर्वत्र सुलभोदयः ॥२॥
अथ जैनः प्रत्युवाच । यत्तावदूचे प्रत्यक्षमेक घटते प्रमाणमिति तदसम्यक् । स्वपरव्यवसायि ज्ञानं हि प्रमाणस्वरूपम् । तस्य च परोक्षेऽपि विद्यमानत्वात् । तथाहि-~अनुमानादिकं प्रमाण स्वपरव्यवसायित्वात् प्रत्यक्षवदिति । यच्चाजल्पि नानुमानादिकं प्रमाणं गौणत्वादित्यादि तत्र यदि सक्षिप्तासंक्षिप्तचेतोभिः शास्त्रकारैधर्मधर्मिसमुदाये सङ्केतितोऽपि पक्षशब्दस्तदेकदेशे धर्मिण्युपचारेण प्रयुक्तः स्यान्नैतावता शास्त्रे पक्षगव्दात् प्रतिपत्तौ धर्मिणो गौणता । अनुमानसमये पुनः प्राकृतैरिव तार्किकैरप्यप्रयुक्तपक्षशब्दैरेव धर्मिणः प्रत्यक्षत' प्रतीयमानत्वे कथं गौणता । तदगौणताया च तदधिकरणस्य हेतोरप्यगौणत्वात् कथं तजन्यस्यानुमानस्य गौणत्वं गदितुमनुगुणम् । यच्चापरं न्यगादि-अनुमानादर्थनिश्चयो दुर्लभ इति तदेतत्तद्वचनं दर्शनादर्शनमात्रेण हेतुव्याप्तिग्रहणवादिनो जैमिनीयान् दुनोति न पुनस्ताख्यप्रमाणेन सर्वत्र साध्यसाधनसम्बन्धबोधामिधायिनो जैनान् । यथैव हि तर्कप्रमाणेन लौकिकहेतूनामव्यभिचारनिश्चयः कर्तुं शक्यस्तथा तन्त्रप्रसिद्धहेतूनामपीति कथं न तेभ्योऽपि सा प्रतिपत्तिः । तन्न गौणत्वादनुमानस्याप्रामाण्यं वक्तुं युक्तमिति । अथास्पष्टस्वरूपत्वात् १ स्वनिश्चये परापेक्षत्वात् २ प्रत्यक्षपूर्वकत्वात् ३ अर्थादनुपजायमानत्वात् अवस्तुविषयत्वात् ५ बाध्यमानत्वात् ६ साध्यसाधनयो प्रतिबन्धप्रमाणाभावाद्वा ७ तस्याप्रमाण्यमुच्यते तदप्यल्पम् । न तावत् प्रथम । यदि हि स्पष्टत्व प्रमाणलक्षणं स्यात्तदाऽनुमानान्निवर्तमान प्रामाण्यमादाय निवर्तत इत्यप्रमाण्यमस्य युक्तं स्यात् । न चैतत् प्रमाणलक्षणं द्विचन्द्रादिज्ञाने स्पष्टत्वसद्भावेऽपि प्रामाण्याभावात् ॥१॥ न द्वितीयः । प्रत्यक्षवदनुमाया' स्वार्थनिश्चयेऽभ्यासावस्थाया परानपेक्षत्वादनभ्यासावस्थाया त्वत्र परापेक्षत्वं प्रत्यक्षस्याप्यस्ति ॥२॥तृतीयस्त्वसिद्धः । तर्काख्यप्रमाणपूर्वकत्वेनानुमानस्याभिधीयमानत्वात् । अस्तु वा प्रत्यक्षादेवानुमितेर्जन्म तथापि नाऽप्रामाण्यम् । प्रत्यक्ष ह्यनुमानस्य जन्मनि [निमित्तमेव] स्वसामग्रीतश्योपजायमानस्य तस्याऽप्रधान्ये(प्रामाण्ये) प्रत्यक्षस्यापि तत एवाऽप्रामाण्यमस्तु । किञ्च, प्रत्यक्षपूर्वकत्वेनाऽनुमानस्याप्रामाण्ये प्रत्यक्षस्यापि कस्यचिदनुमानपूर्वकत्वे