________________
विविधमतस्थापकोत्थापकानुमानसग्रहः वत् ॥३॥ नीलादयो ज्ञानादभिन्ना एव वेद्यमानत्वात् ज्ञानस्वरूपवत् ॥४॥ चित्रज्ञानं नीलसुखाद्यनेकाकारखचितमाभासते न पुनर्वाह्यार्थस्तत्सद्भावे प्रमाणाभावात् । यस्य सद्भावे प्रमाणं नास्ति तन्नास्ति । यथा खपुष्पम् । नास्ति च बाह्यार्थसद्भावे किमपि प्रमाणम् । तस्मान्नास्त्येव बाह्योऽर्थः । न चेदमसिद्धम् । यतस्तद्ग्राहक ज्ञानं साकारं निराकारं वा स्यात् । द्वितीये तत्त्वाविशेषात् प्रतिकर्मव्यवस्थाविलोपः । प्राच्ये तु सिद्धमेव ज्ञानं नीलाद्यनेकाकाराक्रान्तम् । न तु तद्व्यतिरिक्तो जडोऽर्थः । तद्वयवस्थाहेतोः कस्यचिदप्यभावात् । न चाऽऽकारविशिष्टचिदेव तद्वयवस्थाहेतुः । तस्य स्वाकारानुभवमात्रेणैव चरितार्थत्वात् । तदुक्तम्
धियोऽनीलादिरूपत्वे" बाह्योऽर्थः किं निबन्धनः । धियो नीलादिरूपत्वे" बाह्योऽर्थः किं निबन्धनः ॥
॥ इति योगाचारसमतज्ञानाद्वैतसिद्धिः ।। नोलादयः पदार्था अनेके न भवन्ति । एकज्ञानाव्यतिरिक्तत्वात् । यदेकस्माद्वयतिरिक्त तदनेकम् । नीलादय. पदार्थाः नैकज्ञानाद् व्यतिरिक्ताः ।] यथा ज्ञानस्वरूपमिति ॥१॥ चित्रता ज्ञानधर्मो न भवति । बाह्यार्थधर्मतया प्रत्यक्ष प्रतिभासमानत्वात् । यो यद्धर्मतया प्रतीयते स ततोऽन्यधर्मो (तस्यैव धर्मो नाऽन्यस्य)। यथाऽग्निधर्मतया प्रतीयमाना भासुरोष्णता न जलधर्मः । बाह्यार्थधर्मतया प्रतीयते च चित्रता । तस्मात्तद्धर्म ॥२॥
॥ इति चित्रज्ञानोत्थापकानुमानद्वयम् ॥
* *
५. शब्दब्रह्मवादः ॥॥ सर्वे भावा' शव्दमयाः । तदाकारानुस्यूतत्वात् । ये यदाकारानुस्यूतास्ते तन्मयाः । यथा घट-घटी-गरावोदञ्चनादयो मृदाकारानुस्यूता मृण्मया एव ॥१॥ शब्दान्न व्यतिरिच्यतेऽर्थः । तत्प्रतीतावेव प्रतीयमानत्वात् । यत् प्रतीतावेव यत् प्रतीयते न तत् ततो व्यतिरिच्यते । यथा शब्दस्य स्वरूपम् । शब्दप्रतीतावेव प्रतीयते चार्थ । तस्मात्तथा ॥२॥ इति शब्दब्रह्मसाधकानुमानद्वयम् ॥ १० वायार्थस्य येतदेव फल यत्तेन बुद्धौ स्वाकारोऽर्पणीय । तम्याश्चात द्रूपत्वात् किं तेन । ११ धिय एव वाह्यार्थरूपतया तदर्थक्रियाकरणात् । तुलना धियो नीलादिरूपत्वे वाह्योऽर्थ किंप्रमाणक ।
धियोऽनीलादिरूपत्वे स तस्यानुभव कथम् ॥ प्र०वा०२.४३३