________________
२४
अज्ञातकर्तकः
__ प्रपञ्चो मिथ्या न भवति । असद्विलक्षणत्वात् । परब्रह्मवत् । नन्वत्र असविलक्षणत्वहेतौ नञ् प्रसज्य. पर्युदासो वा । प्रसज्यपक्षे सत. पदार्थान्न विलि]क्षणः सदविलक्षण इत्यर्थः । सत्सदृश एवेत्यर्थः । तथा च प्रतिवाद्यसिद्धो हेतुः । वेदान्तिना प्रतिवादिना सता परब्रह्मणा सह प्रपञ्चस्य साम्यानङ्गीकारात् । यद्दा अन्योन्याश्रय । तथाहि सत्सदृक्त्वसिद्धौ मिथ्यात्वाभावसिद्धिः । मिथ्यात्वाभावसिद्धौ च सत्सदृक्त्वसिद्धि । अथ चेत् सच्छब्देनार्थक्रियाकारित्वमेव विवक्षित तदाऽसद्विलक्षणत्वादिति पदानर्थक्यम् । सत्त्वादित्येव सिद्धेः । तथा च साध्यसमोऽप्ययं हेतुः । उभयो सत्सदृक्त्वज्ञापनात् । अथ चेत् • पर्युदासः तदानीमसत. पदार्थाडिलक्षणत्वादिति हेत्वर्थः सङ्गच्छते । सोऽपि न युक्त । असच्छब्देन किलाऽभाव उच्यते । स च प्रागभावादिभेदाच्चतुर्धा । तत्राद्याभावत्रयाद्विलक्षणत्वं यदि हेतुस्तदाऽसिद्ध एव । मृत्पिण्ड-कपाल-स्तम्भादिभ्य. क्रमेण प्रागभावप्रवंसाभावान्योन्याभावसज्ञेभ्य प्रपञ्चस्य वैलक्षण्यानङ्गीकारात् । प्रपञ्चस्य तदाद्यात्मकत्वादेव । अथ चेत् खरविषाणादेरत्यन्ताभावाद्वैलक्षण्यमिष्टं तदा व्यभिचारी हेतु. । शुक्तिरजतादौ मिथ्यारूपे हेतोर्वर्तनात् । अपि च केन गुणेन प्रपञ्चस्याऽसतो वैलक्षण्यमाकाहितम् । किं ज्ञानमात्रगोचरत्वेन उत प्रपञ्चग्राहकज्ञानस्य सत्यत्वादेव । तत्कालमर्थक्रियाकरणेन कालान्तरेऽप्यर्थक्रियाकरणेन वा । इति विकल्पचतुष्कम् । आये शुक्तिरूप्यमृगतृष्णिकादिना व्यभिचारी हेतुः । द्वितीये चक्रकम् । तथाहि-ज्ञानस्य सत्यत्वं तावत् सम्यगर्थग्राहकतया । सा चार्थस्य सम्यक्त्वसिद्धे । तच्च तद्ग्राहकज्ञानसत्यत्वरूपेण सद्विलक्षत्वहेतुना सिसा(पा)वयिषितमिति स्पष्टमेव चक्रकं साध्यहेतो । तृतीये तु शुक्तिरूप्यर
जुभुजगादिभिर्व्यभिचारी हेतु । तत्कालं ज्ञानक्षणेतरैपि द्रष्टुरुपादित्साजिहासोद्भूतप्रवृत्तिनिवृत्तिहर्षभयाद्यर्थक्रियाणां यथाक्रम विधापनदर्शनात् । तुर्यस्तु क्षोदीयानेव । निरीक्षणक्षणान्तरमेव क्षयमुपगच्छत स्वच्छपयोवुवुदस्य कालान्तरेऽर्थक्रियाकरणाभावेऽपि मिथ्यात्वानगीकारात् । तथा च हेतो गासिद्धतापत्तिः । घटादौ वर्तनाद् बुद्बुदावर्तनाच्च । एव च न किञ्चन प्रपञ्चस्य सद्वैलक्षण्यं लक्ष्यते । पर्यन्ते स्वरूपासिद्ध एवायम् ॥६॥
*
*
४. विज्ञानवादः नीलाढय पदार्था सवेदनरूपा एव । अवभासमानत्वात् । सुखादिवत् ॥१॥ अर्थ. सवेदनान्न भिद्यते । नियमेन सहोपलभ्यमानत्वात् । तैमिरिकोपलभ्यमानादेकस्माच्चन्द्राद् द्वितीयचन्द्रवत् ।।२।। ज्ञानमया भावा स्वयप्रकाशमानत्वात् सुखादि