SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ संयम इति । सावधानानां प्रस्फुरद -व्यापाराणां निजवृत्तीनां संयमनं कृत्वा आत्मनि धीयते इति संयमः ॥२७॥ सोपायमिति । स्वयमेव प्रकाशमयं स्वेनैव स्वात्मन्येकीकृत्य सदा तत्त्वेन स्थातव्यम् ॥ २८ ॥ अद्वैतमिति । अकर्तृतयैव योगी नित्यतृप्तो निर्विकल्पः सदा निरुत्थानत्वेन तिष्ठति ॥२९॥ उक्तश्च:सहर्ज स्वात्मसंवित्तिः संयमः स्वात्मनिग्रहः । सोपायः स्वस्य विश्रान्तिरद्वैतं परमं पदम् ॥ ३० ॥ तज्ज्ञेयं सद्रोर्वक्त्रात् नान्यथा शास्त्रकोटिभिः । न तर्कशब्दविज्ञानानाचाराद्वेदपाठनोत् ॥ ३१॥ वेदान्तश्रवणान्नैव तत्त्वमस्यादिबोधनात् । न हंसोचारणाज्जीवब्रह्मणोरैक्यभावनात् ॥ ३२ ॥ न ध्यानान लयाल्लीनः सर्वज्ञः सिद्धिपारगः स्वेच्छो योगी स्वयंकर्ता लीलया चाजरोऽमरः ॥३३॥ अवध्यो देवदैत्यानां क्रीडते भैरवो यथा । इत्येवं निश्चलो योऽसौ क्रमादाप्नोति लीलया ॥३४ ।। असाध्याः सिद्धयः सर्वाः सत्यमीश्वरभासितम् । प्रथमे त्वरोगतासिद्धिः सर्वलोकप्रियो भवेत् । कांक्षते दर्शनं तस्य स्वात्मारूढस्य नित्यशः ॥ ३५ ॥ कृतार्थः स्याद्वितीये तु कुरुते सर्वभाषया । तृतीये दिव्यदेहस्तु व्यालैाघेर्न बाध्यते ॥३६॥ ११-स्व स्व निग्रहः (ह.). १२- पारगात् (ह.). १३ - लयाल्लीनात् मौन कर्म समाश्रयात् लीने पिण्डे भवेदू योगी (तं.). १४ - सद्गरोः करुणां विना (ह.). १५ - कविता (तं.). १६-भाषणं.
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy