SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ २५ वेत्रं कमंडलुञ्चैव भस्मना च त्रिपुण्ड्रकम् । कूर्यादेतान् प्रयत्नेन गुरुवन्दनपूर्वकम् तेषां पिण्डसिद्धौ सत्यां सर्वसिद्धयः सन्निधाना भवन्ति ॥ १७ ॥ उक्तश्च: यस्मिन् ज्ञाते जगत्सर्वं सिद्धं भवति लीलया । सिद्धयः स्वयमायान्ति तस्माद् ज्ञेयं परमं पदम् ।। १८ ।। परं पदं न वेषेण प्राप्यते परमार्थतः । देहमूलं हि वेषं स्याल्लोकप्रत्ययहेतुकम् ।। १९ ।। लोके निकृष्टमुत्कृष्टं परिगृह्य पृथक् कृतम् । तत्स्वधर्म इति प्रोक्तो योगमार्गे विशेषतः ॥ २० ॥ योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ ॥ २१ ॥ शास्त्रेष्वन्येषु सर्वेषु शिवेन कथितः पुरा । योगः सन्नहनोपायो ज्ञानसंगतियुक्तिषु ॥ २२ ॥ लोके निकृष्टं सततं यं वा यं वा प्रकुर्वतो । तं वा तं वा वर्जयन्ति लोकज्ञानबलेन तु ॥ २३ ॥ मनुष्याणां च सर्वेषां प्राक्संस्कारवशादिह । शास्त्र - युक्ति - समाचारः क्रमेण भवति स्फुटम् ॥ २४ ॥ एवं पिण्डे संसिद्धे ज्ञानप्राप्त्यर्थं तच्च परमपदं महासिद्धानां मतं परिज्ञाय तस्मिन्नहंभावे जीवात्मा च सहजसंयम - सोपायाद्वैतक्रमेणोपलक्ष्यते ।। २५ ।। तत्र सहजमिति । विश्वातीतं परमेश्वरं विश्वरूपेणावभासमानमिति एकमेवास्तीति स्वस्वभावेन यद् ज्ञानं तत्सहजं प्रसिद्धम् ॥ २६ ॥ १०- ध्यान ( तं.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy