________________
तद्यथा-निरुत्थानप्राप्त्युपायः कथ्यते । महासिद्धयोगिनः स्वस्वरूपतयानुसन्धानेन निजावेशो भवति निजावेशानिपीडित-निरुत्थान-दशा-महोदयः कश्चिन्जायते । ततः सचिदानन्द - चमत्कारात् अद्भुताकारप्रकाशप्रबोधो जायते । प्रबोधादखिलमेतद् द्वयाद्वय-प्रकटतया चैतन्यमासाभासकं परात्परं पदमेव प्रस्फुटं भवतीति सत्यं ॥८॥ अत एव महासिद्धयोगिभिः सम्यक् (उक्त) गुरुप्रसादं लब्ध्वाऽवधान-बलेनैक्यं भजमानैस्तत्क्षणात् परमं पदमेवानुभूयते ॥ ९॥ तदनुभवबलेन स्वकीयं सिद्धं सम्यक निजपिण्डं परिज्ञात्वा तमेव परमपदे एकीकृत्य तस्मिन् प्रत्यावृत्यारूढेवाभ्यन्तरे स्वपिण्ड सिद्धयर्थं महत्त्वमनुभूयते ॥१०॥ निजपिण्डमिति स्वरूपकिरणानन्दोन्मेषमात्रं यस्योन्मेषस्य प्रत्याहरणमेव समरसकरणं भवति ॥११॥ अतएव स्वकीय पिण्डं महारश्मिपुंजं स्वेनैवाकारेण प्रतीयमानं स्वानुसन्धानेन स्वस्मिन्नुररीकृत्य महासिद्धयोगिनः पिण्डसिद्धयर्थं तिष्ठन्तीति प्रसिद्धम् ॥ १२ ॥ अथ पिण्डसिद्धौ वेषः कथ्यते
शंखमुद्राधारणश्च केशरोमप्रधारणम् । अमरीपानममलं तथा मर्दनमुत्कटम् ॥ १३॥ एकान्तवासो दीक्षा च सन्ध्या जपमाश्रया। झानभैरवमूर्तेस्तु तत्पूजा च सुरादिभिः॥१४॥ शंखाध्मातं सिहंनाद कौपीनं पादुका तथा । अङ्गवस्त्रं बहिर्वस्त्रं कम्बलं छत्रमद्भुतम् ॥ १५ ॥
५- भूतकरणं (तं.). ६-पिण्डपरीक्षा च स्व (ह.). ८-जपममायया (ह.). ९-यथाविधिः (ह.).
७-उत्तमम् (ह.).