SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पञ्चमोपदेशः अथ पिण्डपदयोः समरसकरणं कथ्यते - महासिद्धयोगिभिः पूर्वोक्तक्रमेण परपिण्डादिस्वपिण्डान्तं ज्ञात्वा परमपदे समरसं कुर्यात् ।। १॥ परमपदमिति स्वसंवेद्यं अत्यन्ताभासाभासकमयं ॥२॥ उक्तं तत्त्वसंहितायाम् :यत्र बुद्धिर्मनो नास्ति तत्त्वविन्नापरा कला। ऊहापोहो न कर्तव्यौ वाचा तत्र करोति किम् ॥ वाग्मिना गुरुणा सम्यक कथं तत्पदमीयते । तस्मादुक्तं शिवेनैव स्वसंवेद्यं परंपदम् ॥३॥ अतएव नानाविध-विचारचातुर्य-वर्चसा विस्मयां गत्वा गुरुचरणरतत्वात् निर्णीतत्वात् स्वसंवेद्यमेव परमं पदम् प्रसिद्धमिति सिद्धान्तः ॥४॥ गुरुत्र सम्यक् सन्मार्गदर्शनशीलो भवति । सन्मार्गो योगमार्गस्तदितरः पार्षडमार्गः। तदुक्तमादिनाथन:योगमार्गेषु तंत्रेषु दीक्षितास्तांश्च दूषकाः । ते हि पार्षडिनः प्रोक्ताः तथा तैः सहवासिनः ॥५॥ यस्मिन् दर्शिते सति तत्क्षणात् स्वसंवेद्यसाक्षात्कारः समुत्पद्यते । ततो गुरुरेवात्र कारणमुच्यते ॥६॥ तस्माद्गुरुकटाक्षपातात् स्वसंवेद्यतया च महासिद्धयोगिभिः स्वकीय पिण्डं निरुत्थानानुभवेन समरसं क्रियते इति सिद्धान्तः ॥७॥ १-चर्चा (ह.). २ - सारांग (तं.). ३ - कृपातत्वमात्रेण (हं.), गुरुवरणत्वात् निरुपाधिकत्वात् निनिकेतत्वात् (तं.). ४-आचार्यस्वामिना (तं.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy