SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ २७ चतुर्थे क्षुत्तृषा निद्राशीत तापविवर्जितः । जायते दिव्ययोगीशो दूरभावी न संशयः ॥ ३७ ॥ वासिद्धिः पञ्चमे वर्षे परकायप्रवेशनम् । षष्ठे न छिद्यते शस्त्रैर्वज्रपातैर्न वाध्यते ।। ३८ ।। वायुवेगी क्षितित्यागी दूरदर्शी च सप्तमे । अणिमादिगुणोपेतस्त्वष्टमे वत्सरे भवेत् ।। ३९ ।। नवमे वज्रकायः स्यात् खेचरो ढिकचरो भवेत् । दशमे पवनाद्वेगी यत्रेच्छा तत्र धावति ॥ ४० ॥ सम्यगेकादशे वर्षे सर्वज्ञः सिद्धिभाग्भवेत । द्वादशे शिवतुल्योऽसौ कर्ता हर्ता स्वयं भवेत् ॥ ४१ ॥ त्रैलोक्ये पूज्यते सिद्धः सत्यं श्रीभैरवो यथा । एवं द्वादशवर्षेषु सिद्धयोगी महाबलः ॥ जायते सद्गुरोः पादप्रभावान्नात्र संशयः ॥ ४२ ॥ गुरुकुलसन्तानञ्चेति पञ्चधा प्रोक्तम् आई - सन्तानं विलेश्वर - सन्तानं विभूति - सन्तानं नाथ - सन्तानं योगीश्वर - सन्तानञ्चेति एषामपि सन्तानानां पृथक पृथक वैशिष्ट्यं वर्तते ॥ ४३ ॥ परमार्थतः सव पाञ्चभौतिकं । तज्जातः पुरुषाः । (स्ववोघ) सम्बोधमात्रैकरूपः सशिवः । तदितरत्सर्वमज्ञानमव्यक्तं भवति तत्र शिवस्तु ज्ञानं ।। ४४ ।। एतेषामपि सन्तानानां केचित्स्वरूपपराङ्मुखाः वेशमात्रसम्पन्नाः क्रयविक्रयादिकं कुर्वन्ति सन्तानभेदं प्रत्यन्योऽन्यमधः कुर्वन्ति योगमार्गं द्वेषयन्ति ।। ४५ ।। १७ - यत्रेच्छा तत्र धावति (यो . ) . १८ - न जाताः ( ह . ) .
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy