________________
૨૮ रजसा घोरसंकल्पाः कामुकाः अतिमन्येवैः । दाम्भिकाः मानिनः पापाः धिक्कुर्वन्त्यीश्वरप्रियान् ॥४६॥ साधुसङ्गम-सच्छास्त्र-परमानन्द-लक्षितान् । स्वेच्छाचारविहारैक-ज्ञानविज्ञानसंयुतान् ॥४७॥ यूयं दुष्टा वयं शिष्टा भ्रष्टा यूयं वयं तथा । इत्येवं परिवदन्ति संप्रमोहे निरन्तरम् ॥४८॥ पृथ्वी जलं तथा वह्निः वायुराकाशमेव च । एते सन्तानोदयास्तु सम्यगेव प्रकीर्तिताः ॥४९॥ काठिन्यश्चार्द्रता तेजो धावनं स्थिरता खलु । गुणान्येतानि पञ्चैव सन्तानानां क्रमात् स्मृताः॥५०॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः
एताश्च देवताः प्रोक्ताः सन्तानानां क्रमेण तु ॥५१॥ स्थूल-मूक्ष्म-कारणं तूर्य तूर्यातीतमिति पञ्चावस्थाः क्रमेण लक्ष्यन्ते । एतेषामपि सर्वेषां विज्ञाता यः स योगी स सिद्धपुरुषः स योगीश्वरेश्वर इति परमरहस्यं प्रकाशितम् ॥ २२ ॥ अतएव सम्यक निजविश्रान्तिकारकं महायोगिनं सद्गुरु सेवयित्वा सम्यक् सावधानेन परमं पदं सम्पाद्य तस्मिन् निजपिण्डे (पिण्डं) समरसभावं कृत्वाऽत्यन्तं निरुत्थानेन सर्वानन्दतत्त्वे निश्चलं स्थातव्यम् । ततः स्वयमेव महासिद्धो भवतीति सत्यम् ॥५३॥
न विधिर्नैव वर्णश्च न वावज्यकल्पना । न भेदो निधनं किश्चिन्नाशौचं नोदकक्रिया ॥५४॥ योगीश्वरेश्वरस्यैवं नित्यतृप्तस्य योगिनः ।
चित्स्वात्मसुखविश्रान्तिभावलब्धस्य पुण्यतः ॥५५॥ १९ - अहिमन्यवः (यो.). २० - निषेधश्च (तं.).