SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सम्यक् स्वभावविज्ञानात् क्रमाभ्यासान चासनात् । न वैराग्यान्न नैराश्यानाहार-प्राण-धारणात् ॥५६॥ न मुद्रा-धारणाद्योगान मानकर्म-समाश्रयात् । न विरक्तां वृथायासान कायक्लेशधारणात् ॥ ५७ न जपान तपोध्यानान्न यज्ञात्तीर्थसेवनात् । न देवार्चनाश्रयाद्भक्त्या नाश्रमाणाञ्च पालनात् ।। ५८॥ न पडूदर्शनकेशादिधारणान्न च मुण्डनात् । नानन्तोपाययत्नेभ्यः प्राप्यते परम पदम् ॥५९॥ एतानि साधनानि सर्वाणि दैहिकानि परित्यज्य परमपदेऽदैहिक स्थीयते सिद्धपुरुषैरिति ॥६०॥ तत्कथं । गुरुदृक्पातनात् प्रायो दृढानां सत्यवादिनां सा स्थितिर्जायते ॥६१॥ कथनाच्छाक्तपाताद्वा पादावलाकनात् । प्रसादात् स्वगुरोः सम्यक प्राप्यते परमं पदम् ॥ ६२॥ अतएव शिवेनोक्तम् न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् । शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः॥६३॥ वाङ्मात्राद्वाथदृक्पातात् यः करोति च तत्क्षणात् । प्रस्फुट शाम्भवं वेद्यं स्वसंवेद्यं परं पदम् ॥६४॥ करुणाखड्गपातेन छित्वा पाशाष्टकं शि(प)शोः । सम्यगानन्दजनकः सद्गुरुः सोऽभिधीयते ॥ ६५ ॥ निमिषार्धापाताद्वा यद्वा पादावलोकनात् । स्वात्मानं स्थिरमाधत्ते तस्मै श्रीगुरवे नमः ॥६६॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy