SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ नाना-विकल्प-विश्रान्तिं कथया कुरुते तु यः । सद्गुरुः स तु विज्ञेयो न तु मिथ्या-विडम्बकः ॥ ६७॥ अतएव परमपदप्राप्त्यर्थं स सद्गुरुः सदा वन्दनीयः गुरुरिति गृणाति शै' सम्यक चैतन्यविश्रान्तिमुपदिशति ।। विश्रान्त्या स्वयमेव परात्परं परमपदमेव प्रस्फुटं भवति तत्क्षणात्साक्षात्कारो भवति ॥ ६८॥ अतएव महासिद्धानां मते प्रोक्तं । वाग्मात्रेण वा दृक्पातमात्रेण वा सम्यगवलोकनेन वा तत्क्षणान्मुहुर्विश्रान्तिमत्तां नयतीति ( विश्रान्तियुक्तं करोतीति, ह ) यः स सद्गुरुर्भवति । नो चेनिजविश्रान्ति विना पिण्डपदयोः समरसकरणं न भवतीति सिद्धान्तः । तस्मानिजविश्रान्तिकारकः सद्गुरुरभिधीयते नान्यः ॥ पुनर्वागादि-शास्त्रदृष्टयानुमानतस्तर्क-मुद्रया भ्रौमिको गुरुस्त्याज्यः ॥ ६९ ॥ उक्तश्च :ज्ञानहीनो गुरुस्त्याज्यः मिथ्यावादी विडम्बकः । स्वविश्रान्तिं न जानाति परेषां स करोति किम् ॥ ७० ॥ शिलया किं परं पारं शिलासंघः प्रतार्यते । स्वयं तीर्थों भवेद्योऽसौ परानिस्तारयत्यलम् ॥ ७१ ॥ विकल्पसागरात्योराचिन्ताकल्लोलदुस्तरात् । प्रपश्च-वासना-दुष्ट (ग्रह) ग्राहजालसमाकुलात् ॥ ७२ ॥ वासना-लहरी-वेगाद्यः स्वं तारियतुं क्षमः । स्वस्थेनैवोपदेशेन निरुत्थानेन तत्क्षणात् ॥ ७३ ।। २१-गुणातिशय ( यो.), गुणातीतः (त.). २२-श्रामको (ह.). २३नास्वस्थतरितुं क्षयः (तं.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy