________________
तारयत्यैव दृकूपातात् कथनाद्वा विलोकनात् । तारिते स्वपदं धत्ते स्वस्वमध्ये स्थिरो भवेत् ।। ७४ ॥ ततः स मुच्यते शिष्यो जन्मसंसारबन्धनात् । परानन्दमयो भूत्वा निष्कलः शिवतां व्रजेत् ॥ ७५ ।। कुलानां कोटिकोटीनां तारयत्येव तत्क्षणात् । अतस्तं सद्गुरुं साक्षात् त्रिकालमभिवन्दयेत् ॥ ७६ ।। सर्वाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत् । भजैनात्स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत् ॥ ७७ ॥ किमत्र बहुनोक्तेन शास्त्रकोटिशतेन च । दुर्लभा चित्तविश्रान्तिर्विना गुरुकृपां पराम् ।। ७८ ॥ चित्तविश्रान्तिलब्धानां योगिनां दृढचेतसाम् । स्वस्वमध्ये निमग्नानां निरुत्थानं विशेषतः ॥ ७९ ।। निमिषात्प्रस्फुटं भाति दुर्लभं परमं पदम् । यस्मिन् पिण्डो भवेल्लीनः सहसा नात्र संशयः ।। ८० । संविक्रिया-विकरणोदय-चिद्विलोलेविश्रान्तिमेव भजतां स्वयमेव भाति । ग्रस्ते स्ववेगनिचये पदपिण्डमैक्य, सत्यं भवेत्समरसं गुरुवत्सलानाम् ॥ ८१॥ ॥ इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धती पिण्डपदयोः समरसकरणं नाम पञ्चमोपदेशः ॥ ५॥
२४-सजनः (ह.). २५-सम्यकू स्वभावकिरणोदयचिद्विलास (तं.).