________________
षष्ठोपदेशः
अथ अवधृतयोगिलक्षणं कथ्यते:अवधूतयोगी नाम क इत्यपेक्षायामाह । यः सर्वान् प्रकृतिविकारान् अवधूनोतीत्यवधृतः । योगोऽ स्यास्तीति योगी। धूञ् कम्पने इति धातुः कम्पनार्थे वर्तते । कम्पनं चालनं देह -दैहिक-प्रपंचादिषु विषयेषु संगतं मनः परिगृह्य तेभ्यः प्रत्याहृत्य स्वधाममहिम्नि परिलीनचेताः प्रपञ्चशून्य आदिमध्यान्तनिधनभेदवर्जितः ॥१॥
यकारो वायुबीजं स्याद्रकारो वह्निबीजकम् ।
तयोरभेदओंकारश्चिदाकारः प्रकीर्तितः ॥२॥ तदेतद् व्यक्तमुच्यते :
क्लेशपाशतरङ्गाणां कृन्तनेन विमुण्डनम् । सर्वावस्थाविनिर्मुक्तः सोऽवधृतोऽभिधीयते ॥३॥ निजैस्मरविभूतियों योगी स्वाङ्गे विभूषितः । आधारे यस्य वारुढिः (ढः) सोऽवधूतोऽभिधीयते ॥४॥ लोकमध्ये स्थिरासीनः समस्त-कलनोज्झितः। कौपिनं खपरोऽदैन्यं सोऽवधृतोऽभिधीयते ॥५॥ शं सुखं खं परं ब्रह्म शंख सघंटनाद् भवत् । सिद्धान्तं धारितं येन सोऽवधृतोऽभिधीयते ॥६॥ पादुका पदसंवित्ति मृगत्वच महाहतम् । वेला यस्य परा संवित्सोऽवधृतोऽभिधीयते ॥७॥ मेखला निवृत्तिनित्यं स्वस्वरूपं कटासनम् निवृत्तिः पइविकारेभ्यः सोऽवधूतोऽभिधीयते ॥ ८॥ १-उकारं (तं.). २-निजस्फार (तं.). ३-त्वक् स्यादनाहता (ह.). ४शेली (ह.), चंलं (तं.). ५-निरतिः (तं.).