________________
३३
चित्प्रकाश-परानन्दौ यस्य वै कुण्डलद्वयम् । जपमालाक्षविश्रान्तिः सोऽवधूतोऽभिधीयते ॥ ९॥ यस्य धैर्यमयो दण्डः पराकाशं च खर्परम् | योगपट्टं निजा शक्तिः सोऽवधृतोऽभिधीयते ॥ १० ॥ भेदाभेद स्वयं मिक्षां पटरसास्वादने रतः जारणा (त) तन्मयीभावः सोऽवधृतोऽभिधीयते ॥ ११ ॥ अचिन्त्ये निज - दिग्देशे स्वान्तरं यस्तु गच्छति । एकदेशान्तरीयो यः सोऽवधूतोऽभिधीयते ।। १२ ॥ स्वपिण्डममरं कर्तुमनन्ताममरीं च यः । स्वयमेव पिवेदेतां सोऽवधृतोऽभिधीयते ।। १३ ॥ अचिन्त्यं वज्रवगाढा वासनामलसंकुला | सावत्री भक्षिता येन सोऽवधूतोऽभिधीयते ॥ १४ ॥ आवर्त्तयति यः सम्यक स्वस्वमध्ये स्वयं सदा । समत्वेन जगद्वेत्ति सोऽवधृतोऽभिधीयते ।। १५॥ स्वात्मानमवगच्छेद्यः स्वात्मन्येवावतिष्ठते । अनुत्थानमयः सम्यक् सोऽवधूतोऽभिधीयते ।। १६ ॥ अनुत्वा (त्या) धारसम्पन्नः परविश्रान्तिपारगः । धृतिचिन्मयतत्त्वज्ञः सोऽवधूतोऽभिधीयते ।। १७॥ अव्यक्तं व्यक्तमाधत्ते व्यक्तं सर्वं ग्रसत्यलम् । स्व(स)त्यं स्वान्तरे सन् यः सोऽवधूतोऽभिधीयते ।। १८ अवभासात्मको भासः स्वप्रकाशे सुसंस्थितः । लीलया रमते लोके सोऽवधूतोऽभिधीयते ।। १९ ।। कचिद्भोगी कचित्त्यागी कचिन्ननः पिशाचवत । कचिद्राजा कचाचारी सोऽवधूतोऽभिधीयते ॥ २० ॥ ६ - निरृति (यो. ) कृत्वा स्वास्वादने (ह. ) . ७ - अविद्या ( तं.).