________________
३४
एवं-विध नानासंकेतसूचकनित्यप्रकाशे (वस्तुनि) सुनिजस्वरूपी सर्वेषां सिद्धान्तदर्शनानां स्वस्वरूपदर्शने सम्यक सद्वेधैंकोऽवधूतयोगी-त्यभिधीयते स सद्गुरुर्भवति । यतः सर्वदर्शनानां स्वस्वरूपदर्शने समन्वयं करोति सोऽवधृतुयोगी स्यात् ।।
अत्याश्रमी च योगी च ज्ञानी सिद्धश्च सुव्रतः। ईश्वरश्च तथा स्वामी धन्यः श्रीसाधुरेव च ॥२१॥ जितेन्द्रियश्च भगवान स सुधीः कोविदो बुधः । चार्वाकचाहतश्चेति तथा बौद्धः प्रकाशवित् ।।२२।। तार्किकश्चेति सांख्यश्च तथा मीमांसको विदुः । देवतेत्यादिविद्वद्भिः कीर्तितः शास्त्रकोटिभिः ॥२३॥ आत्मेति परमात्मेति जीवात्मेति पुनः स्वयम् । अस्तितत्त्वं परं साक्षाच्छिव-रुद्रादि-संज्ञितम् ॥२४॥ शरीरपद्मकुहरे यत्सर्वेषांमवस्थितम् ॥ तदवश्यं महायोसाद्वेदितव्यं मुमुक्षुभिः ॥२५॥ ब्रह्मा विष्णुश्च रुद्रश्च सोऽक्षरः परमः स्वराट् । स एव इन्द्रः स प्राणः स कालानिः सचेन्द्रकः ॥२६॥ स एव सूर्यः स शिवः स एव परमः शिवः । स एव योगगम्यस्तु सांख्यशास्त्रपरायणेः ॥२७॥ स एव कर्म इत्युक्तः सर्वकर्ममीमांसकैरपि । सर्वत्र सत्परानन्द इत्युक्तो वैदिकैरपि ॥ २८ ॥ व्यवहारैरयं भेदः तस्मादेकस्य नान्यथा। मुद्-मोदे तु रानन्दो (रादाने) जीवात्मपरमात्मनोः ॥२९॥ उभयोरैक्यं संवित्ति मुद्रेति परिकीर्तिताः ॥३०॥
८. सद्बोधकोऽवधूत (ह.). ९- संन्यासी (तं.) १० - शान्दि कञ्चति (तं.). ११-महापाशात्ण्छेदितव्यं (ह.).१२. शास्तास विनायकः स कालानिःस चन्द्राओं(तं.).