________________
मोदन्ते देवसंघाश्च द्रावन्तेऽसुरराशयः। मुद्रेति कथिता साक्षात्सदा भद्रार्थदायिनी ॥३१॥ अस्मिन् मार्गेऽदीक्षिता ये सदा संसाररागिणः । ते हि पाषण्डिनः प्रोक्ताः संसारपरिपेलवाः ॥ ३२॥ अवधृत-तनुर्योगी निराकारपदे स्थितः ।
सर्वेषां दर्शनानां च स्वस्वरूपं प्रकाशते ॥३३॥ तत्र ब्राह्मणेषु ब्रह्मचर्याश्रममाह:
सर्वतो भरिताकारं निजबोधेन बृंहितम् । चरते ब्रह्मविद्यस्तु ब्रह्मचारी स कथ्यते ॥ ३४ ॥ गृहिणी पूर्णता नित्या गेहं व्योम सदाचलम् । यस्तयोनिवसत्यत्र गृहस्थः सोऽभिधीयते ॥ ३५ ॥ सदान्तःप्रस्थितो योऽसौ स्वप्रकाशमये वने। वानप्रस्थः स विज्ञेयो न वने मृगवचरन् ॥ ३६॥ परमात्माथ जीवात्मा आत्मन्येव स्फुरत्यलम् । तस्मिन् न्यस्तः सदा येन संन्यासी सोऽभिधीयते ॥ ३७ मायाकर्मकलाजालमनिशं येन दण्डितम् । अचलो नगवद्भाति त्रिदण्डी सोऽभिधीयते ॥ ३८ ॥ एकं नानाविधाकारमस्थिरं चञ्चल सदा । तचित्तं दण्डितं येन एकदण्डी स कथ्यते ॥ ३९ ॥ शुद्ध शान्तं निराकार परानन्दं सदोदितम् । तं शिवं यो विजानाति शुद्धबुद्धशैवो भवेत्तु सः॥४०॥ सन्तापयति दीप्तानि स्वेन्द्रियाणि च यः सदा । तापसः स तु विज्ञेयो न च गोभस्मधारकः ॥४१॥
१३-सदावलं (ह.).