SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ३६ क्रियाजालं पशुं हत्वा पतित्वं पूर्णतां गतम् । यस्तिष्ठेत्पशुभावेन स वै पाशुपतो भवेत् ॥४२॥ परानन्दमय लिङ्ग निजपीठे सदाऽचले। तल्लिङ्ग पूजितं येन स वै कालमुखो भवेत् ॥४३॥ विलयं सर्वतत्त्वानां कृत्वा संधार्यते स्थिरम् । सर्वदा येन वीरेण लिङ्गधारी भवेत्तु सः॥४४॥ अन्तकादीनि तत्त्वानि त्यक्त्वा नग्नो दिगम्बरः । यो निर्वाणपदे लीनः स निर्वाणपरो भवेत् ॥४५॥ स्वस्वरूपात्मकं ज्ञानं समन्त्रं (समन्तात् ) तत्प्रतिपालितम् अनन्यत्वं सदा येन स वै कापालिको भवेत् ॥४६॥ महाव्याप्तिपरं तत्त्वमाधाराधेयवर्जितम् । तव्रतं धारितं येन स भवेद्वै महाव्रतः ॥४७॥ कुलं सर्वात्मकं पिण्डमकुलं सर्वतोमुखम् । तयोरक्यपदं शक्तिर्यस्ता वेद स शक्तिभाक् ॥ ४८।। कौलं सर्वकलाग्रासः स कृतः सततं यया ।। तां शक्तिं विजानाति शक्तिज्ञानी स कथ्यते ॥४९॥ ज्ञात्वा कुलाकुलं तत्त्वं स क्रमेण क्रमेण तु । स्वप्रकाशमहाशक्त्या ततः शक्तिपदं लभेत् ॥ ५० ॥ मदो मद्यं मतिर्मुद्रा माया मीनं मनः पलम् । मूर्च्छनं मैथुनं यस्य तेनाऽसौ शाक्त उच्यते ॥५१ ।। यया भासस्फुरद्रपं कृतं चैव स्फुट वलात् । तां शक्तिं यो विजानाति शाक्तः सोऽत्राभिधीयते ॥ ५२ ॥ यः करोति निरुत्थानं कर्तृचित्प्रसरेत्सदा । तद्विश्रान्तिस्तया शक्त्या शाक्तः सोऽत्राभिधीयते ॥५३॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy