SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ ३७ व्यापकत्वे परं सारं यद्विष्णोराधमव्ययम् । विश्रान्तिदायकं देहे तज्ज्ञात्वा वैष्णवो भवेत् ।। ५४ ॥ भास्वत्स्वरूपो यो भेदाद भेदाभेदभवोज्झितः । भाति देहे सदा यस्य स वै भागवतो भवेत् ॥ ५५॥ यो वेत्ति वैष्णवं भेदं सर्वासर्वमयं निजम् । प्रबुद्धं सर्वदेहस्थं भेदवादी भवेत्तु सः ।। ५६ ।। पश्चानामक्षया हानिः (पश्चानामक्षपातानां) पञ्चत्वं रात्रिरुच्यत । तां रात्रि यो विजानाति स भवेत्पांचरात्रिकः ।। ५७ ।। येन जीवन्ति जीवा वै मुक्तिं यान्ति च तत्क्षणात् । स जीवो विदितो येन सदाजीवी स कथ्यते ॥५८॥ यः करोति सदा प्रीतिं प्रसन्ने पुरुषे परे शासितानीन्द्रियाण्येव सात्त्विकः सोऽभिधीयते ॥ ५९ ।। सर्वाकारं निराकारं निनिमित्तं निरञ्जनम् । भूक्ष्मं हंसश्च यो वेत्ति स भवेत्सूक्ष्मसात्त्विकः ॥ ६०॥ सत्यमेकमजं नित्यमनन्तञ्चाक्षयं ध्रुवम् । ज्ञात्वा यस्तु वदेद्धीरः सत्यवादी स कथ्यते ॥ ६१ ॥ ज्ञानज्ञेयमयाभ्यां तु योगिनः स्वस्वभावतः । कलङ्की स तु विज्ञेयो व्यापकः पुरुषोत्तमः ॥ ६२ ॥ मुक्तिचारे मतिर्या वै व्यापिका स्वप्रकाशिका । एषा ज्ञानवती यस्य ज्ञाताऽसौ सात्विको भवेत् ।। ६३ ॥ क्षपणं चित्तवृत्तीनां रागद्वेषविलुण्ठनम् । कुरुते व्योमवन्ननो योऽसौ क्षपणको भवेत् ॥ ६४ ॥ प्रसरं भासते शक्तिः संकोचं भासते शिवः । तयोर्योगस्य कर्ता यः स भवेत् सिद्धयोगिराट् ॥६५॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy