SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ३८ विश्वातीतं यथा विश्वमेकमेव विराजते । संयोगेन सदा यस्तु सिद्धयोगी भवेत्तु सः ।। ६६ ।। सर्वासां निजवृत्तीनां प्रसूति भजते लयम् (तु यः) । स भवेत् सिद्धसिद्धान्ते सिद्धयोगी महाबलः ॥ ६७॥ उदासीनः सदा शान्तः स्वस्थोऽन्तर्निजभासकः । महानन्दमयो धीरः स भवेत् सिद्धयोगिराट् ॥ ६८ ॥ परिपूर्णः प्रसन्नात्मा सर्वासर्वपदोदितः। विशुद्धो निर्भरानन्दः स भवेत् सिद्धयोगिराट् ॥ ६९ ।। परिपूर्णः प्रसन्नात्मा सर्वानन्दकरः सुधीः । सर्वानुग्रहधीः सम्यक् स भवेत् सिद्धयोगिराट् ॥ ७० ॥ गते न शोकं विभवे न वांछां प्राप्ते च हर्ष न करोति योगी। आनन्दपूर्णो निजबोधलीनो न वाध्यते कालपथेन नित्यम् ॥ ७१॥ एवं सर्वसिद्धान्तदर्शनानां पृथक् पृथक् भूतानामपि ब्रह्मणि समन्वयसूचनशीलोपदेशकर्ताऽवधूत एव सद्गुरुः प्रशस्यते । एषामुपदेशानां पृथक पृथक् मूचितानां जायते यत्र विश्रान्तिः सा विश्रान्तिरभिधीयते ॥७२॥ लीनतां च स्वयं याति निरुत्थानचमत्कृतेः । यतो निरुत्थानमयात् (मयः) सोऽयं स्यादवधूतराट् ॥७३॥ तस्मात्तं सद्गुरुं साक्षाद्वन्दयेत् पूजयेत्सदा । सम्यक् सिद्धपदं धत्त तत्क्षणात्स्वात्मभासितम् ।।७४ ॥ न वन्दनीयास्ते काष्ठाः दर्शनभ्रान्तिकारकाः । वर्जयेत् तान् गुरून दूरे धीरः सिद्धमताश्रयः ।।७५।। १४-अतो (तं.). १५-कष्टः (तं.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy