SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ स्थूलेति निखिल -ग्राह्याधार -ग्राह्यस्वरूपापि पदार्थान्तरै म्यमाणा इव तद्रूपा वर्तते सा कुण्डलिनी साकारस्थूला पुनस्त्वियमेव स्व-प्रसार-चातुर्यतया वर्तमाना योगिनां परानन्दतया कुण्डलिनी या निश्चयभूता वर्तते सा सूक्ष्मा निराकारा प्रबुद्धा महासिद्धानां मते प्रसिद्धा ॥२१॥ उक्तं तत्वसारे:सृष्टिः कुण्डलिनी ख्याता द्विधा भावगता तु सा । एकधा स्थूलरूपा च लोकानां प्रत्यया(गा)त्मिका ॥२२॥ अपरा सर्वगा सूक्ष्मा व्याप्तिव्यापक-वर्जिता। तस्या भेदं न जानाति मोहितः प्रत्ययेन तु ॥२३॥ तस्मात्सूक्ष्मा परा संवित्स्वरूपा मध्याशक्तिः कुण्डलिनी योगिभिर्देह - सिद्धयथ सद्गुरु - मुखाज्ज्ञात्वा स्व-स्वरूप-दशायां प्रबोधनीया ॥२४॥ अथ ऊर्च - शक्तिनिपातः कथ्यते । सर्वेषां तत्वानामुपरि-वर्तमानत्वान्निर्नाम परमं पदमेव ऊर्ध्वं प्रसिद्धं तस्याः स्त्र - संवेदन - नाना-साक्षात्कारमूचनशीला या ऊर्ध्वशक्तिरभिधीयते । तस्याः निपातनमिति स्व-स्वरूप - द्विधाभास - निरासः किन्तु स्त्र - स्वरूपाखण्डत्वेन भवति ॥२५॥ उक्तं च - शिवस्याभ्यन्तरे शक्तिः शक्तेरभ्यन्तरः शिवः । अन्तरं नैव जानीयाचन्द्रचन्द्रिकयोरिव ॥२६॥ अत ऊर्ध्व-शक्ति - निपातेन महासिद्ध - योगिभिः परमपदं प्राप्यत इति सिद्धम् ॥२७॥ ९- चिद्रूपा (ह.). १०-व्याप्य (तं.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy