________________
वर्तते । अतस्ते पिण्डसिद्धाः प्रसिद्धाः । सा कुण्डलिनी प्रबुद्धाऽप्रबुद्धा चेति द्विधा । अप्रबुद्धेति तत्तत्पिण्डे चेतन-रूपा (स्वभावेन नानाचिन्ता व्यापारोद्यमप्रपंचरूपा) कुटिल-स्वभावा कुण्डलिनी ख्याता । सैव योगिनां तत्तद्विलसितविकाराणां निवारणोद्यम - स्वरूपा कुण्डलिन्यूर्ध्वगामिनी सुप्रसिद्धा भवति ॥१४॥ ऊध्वमिाते । सर्व-तत्वान्यपि स्व-स्वरूपमेवेत्यूर्वे वर्तते अतएव सा विमर्शरूपिणी योगिनः स्व-स्वरूपमवगच्छन्तीति सुप्रसिद्धा ॥१५॥
तथा चोक्तमेवरूलक :ध्यशक्ति-प्रबोधेन अधः-शक्ति - निकुञ्चनात् । ऊर्ध्व - शक्ति - निपातेन प्राप्यते परमं पदम् ॥ १६ ॥ एकैव सा मध्योर्ध्वधः -प्रभेदेन त्रिधा भिन्ना शक्तिरभिधीयते ॥ १७॥ बाह्येन्द्रिय - व्यापार - नाना - चिन्तामया सैवाधः - शक्तिरुच्यते । अतएव ये योगिनः तस्या आकुञ्चनं मूर्ली-धार- बन्धनात् सिद्धं स्यात् । यस्माच चराचरं जगदिदं चिदचिदात्मकं प्रभवति । तदेव मूलाधारं संवित्प्रसरं प्रसिद्धम् ॥ १८ ॥
उक्तं शिवानन्दाचार्यैः :सर्व-शक्ति-प्रसर-संकोचाभ्यां जगत्सृष्टिः संहृतिश्च भवत्येव न सन्देहः तस्मात्तां मूलमित्युच्यते । अतः प्रायेण सर्वसिद्धाः मूलाधार-रता भवन्ति ।। १९ ।। तरङ्गित - स्वभावं जीवात्मानं वृथा भ्रमन्तमपि स्वप्रकाशमध्ये स्व-स्वरूपतया सर्वदा धारयितुं समर्था या सा मध्याशक्तिः कुण्डलिनी गीयते । स्थूल - मूक्ष्म-रूपेण महासिद्धान्तं प्रतीयते इति निश्चयः ॥२०॥ ८-आकुञ्चने रता यस्याकुश्चन ( ह.).