________________
१९
अकुलमिति । जातिवर्ण-गोत्राद्यखिल-निमित्तत्वेनैकमेवास्तीति प्रसिद्ध । तथा चोक्तमुमामहेश्वरसंवादे :निरुत्तरेऽनन्यत्वादखण्डत्वादद्वयत्वादनन्याश्रयत्वाद् निर्धामत्वादनामत्वादकुलं स्याग्निरुत्तरमिति ॥९॥ एवं कुलाकुल-सामरस्य-प्रकाश-भूमिका- स्फुटीकरणे एकैव समर्था या साऽपरम्परा शक्तिरेवावशिष्यते । अपरम्परं निखिलविश्वप्रपञ्चजालं परं तत्त्वं सम्पादयत्येकीकरोत्यपराम्पराशक्तिराशावती प्रसिद्धा ॥१०॥
उक्तं ललित-स्वच्छन्देःअकुलं कुलमाधत्ते कुलं चाकुलमिच्छति । जल - बुद्धदवद्-न्यायादेकाकारः परः शिवः ॥११॥ अतएवैकाकार एवानन्त-शक्तिमान निजानन्दतयावस्थितोऽपि नानाकारत्वेन विलसन् स्वप्रतिष्ठां स्वयमेव भजतीति व्यवहारः।
उक्तं प्रत्यभिज्ञायाम्:अलुप्त - शक्तिमान्नित्यं सर्वाकारतया स्फुरन् । पुनः स्वेनैव रूपेण एक एवावशिष्यते ॥ १२ ॥ अतएव परमकारणं परमेश्वरः परात्परः शिवः स्वरूपतया सर्वतोमुखः सर्वाकारतया स्फुरितुं शक्नोतीत्यतः शक्तिमान् ।
उक्तं वामकेश्वरतन्त्रे:शिवोऽपि शक्तिरहितः शक्तः कर्तुं न किञ्चन । स्वशक्त्या सहितः सोऽपि सर्वस्याभासको भवेत् ।।१३।। अतएवानन्त-शक्तिमान् परमेश्वरः विश्वसंवित्स्वरूपी विश्वमयो भवतीति प्रसिद्ध सिद्धानां च परापर-स्वरूपा कुण्डलिनी ५-अनाशनात् (का.),अनाश्रयात् (तं.).६-निरन्तरं (का.). ७-अपराशक्ति (ह.).