________________
चतुर्थोपदेशः
अथपिण्डाधारः कथ्यते॥ अस्ति काचिदपरम्परा संवित्स्वरूपा सर्वपिण्डाधारत्वेन नित्यप्रबुद्धा निजा शक्तिः प्रसिद्धा कार्यकारणकतणामुत्थान दशांकुरोन्मीलनेन कारं करोति अतएवाधारशक्तिरिति कथ्यते । अत्यन्तं निजप्रकाश--स्वसंवेदानुभवैक्यगम्यमान-शास्त्र लौकिक-साक्षात्कार- साक्षिणी सा परीचिद्रपिणी शक्तिर्गीयते । सैव शक्ति यंदा सहजेन स्वास्मिन्नन्मीलिन्यां निरुत्थानदशायां वर्तते तदा शिवः सैव भवति ॥१॥ अतएव कुलाकुलस्वरूपा सामरस्य-निज-भूमिका निगद्यते ॥२॥ कुलमिति । परासत्ताहन्ता-स्फुरत्ता-कलास्वरूपेण सैव पञ्चधा विश्वस्याधारत्वेन तिष्ठति ॥३॥ अतएव परापरा निराभासावभासकात्प्रकास्विरूपा या सा परा ॥४॥ अनादि-संसिद्धा परमाद्वैत-परमेकमेवास्तीति या अङ्गीकारं करोति सा सत्ता ॥५॥ अनादिनिधनोऽप्रमेय-स्वभावः किरणानन्दोऽस्म्यहमित्यहं-सूचनशीला या सा पराऽहन्ता ॥६॥ स्वानुभव-चित्तचमत्कार-निरुत्थान-दशां प्रस्फुटी करोति या सा स्फुरत्ता ॥ ७॥ नित्य-शुद्ध-बुद्ध-स्वरूपस्य स्वयं प्रकाशत्वमाकलयतीति या सा पराकलेति उच्यते ॥८॥
१-अनन्तराधार (ह.). २-पराचिपिणी (ह.). ३-पराभासत्वादहन्ता सत्ता स्फुरत्ता कुला (यो.). ४-संवित् (तं.).