SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १० एक एवामरोघो हि राजयोगाभिधानकः । मयादिभिस्समायुक्तश्चतुर्थो दीयते कथम् ॥ १७ ॥ मृदुमध्याध मात्रश्च अधिमानतरस्तथा । चतुर्धा साधको ज्ञेयस्तत्सोपानमिहोच्यते ॥ १८ ॥ मन्दोत्साही मन्दरागी पराधीनो विदूषकः । व्याधिस्थो हीनसत्वश्च न (गृ) हवासी मृदुः स्मृतः ।। १९ ॥ समबुद्धिः समाभ्यासी समकायः समाश्रयः । मध्यस्थः सर्वकार्येषु मध्यसत्वोऽभिधीयते ॥ २० ॥ क्षमावीर्यनयैर्युक्तो वयस्थस्सत्ववानपि । स्वाधीनश्च खरश्शूरस्सोऽधिमात्रो निगद्यते ॥ २१ ।। सर्वशास्त्रकृताभ्यासो मनोज्ञो वीर्यशौर्यवान् । निर्मोहस्सर्वसम्पन्नो निर्विकारो महाश्रयः ॥ २२ ॥ अधिमात्रतरस्सोऽपि महाकायः प्रवर्तते ।। तरन्ति च भवाम्भोधिं तारयन्ति परानपि ॥२३॥ मृदवे दीयते मंत्रो मध्याय लय उच्यते । अधिमात्रे हठं दद्यादमरौंघो महेश्वरे ।। २४ ॥ तत्र मंत्रम्:अह (ओ) मिति एकाक्षरं मंत्रं तत्सप्रणवादिकम् । शिवं शम्भं हृदि ध्यात्वा द्वादशे भिन्नमण्डले ॥ २५ ॥ एकलक्षजपान्मृत्यु नाशयेदतिदारुणम् । दशांश हवनं कृत्वा क्षौद्रक्षीरघृताम्बुजैः ॥ २६ ॥ __ अथलयःकामरूपे शिवं देवं लिङ्गामं मणिसन्निभम् । स्रवन्तं चामृतरसं यो ध्यायेन्निजविग्रहे ।। २७ ॥
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy