SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ४० श्रीहट्टे मस्तकान्ते त्रिपुटपुटबिले ब्रह्मरन्ध्रे ललाटे । भ्रूनेत्रे नासिकाग्रे श्रवणपथरवे घण्टिका राजदन्ते ॥ कण्ठे हून्नाभिमध्ये त्रिकमलकुहरे चोड्डियाणे च मूले। एवं ये स्थानलग्नाः परमपदमहो नास्ति तेषां निरुत्थम् ॥ ८१॥ कोल्लाटे दीप्तिपुंजे प्रलयशिखिनिभे सिद्धजालन्धरे वा । गृङ्गाटे ज्योतिरेकं तडिदिव तरलं ब्रह्मनाड्यन्तराले ॥ भालान्ते विद्युद्दाभं तदुपरि शिखरे कोटिमार्तण्डचण्डे । ये नित्यं भावयन्ते परमपदमहो नास्ति तेषां निरुत्थम् ।। ८२ ॥ लिङ्गाद्दण्डांकुरान्तमनःपवनगमात् ब्रह्मनाड्यादिभेदम् । कृत्वा बिन्दु नयन्तः परमपदगुहां शंखगोंदरोव॑म् ।। तत्रान्तर्नादघोषं गगनगुणमयं वनदण्डीचोलीक्रमेण । ये कुर्वन्तीह कष्टात् परमपदमहो नास्ति तेषां निरुत्थम् ।। ८३ ।। सम्यक् चालनदोहनेन सततं दीर्थी कृतां लम्बिकाम् । तां ताल्वभ्यंतरवेशितां च दशमद्वारेऽपि चोल्लंधिनीम् ॥ नीत्वा मध्यम-सन्धि-संघट-घटात्प्राप्तां शिरोदेशतः पीत्वा षडूविधपानकाष्टितजनां मूच्छी चिरं मोहिताः॥८४॥ गुह्यात्पश्चिमपूर्वमार्गमुभयं रुध्वानिलं मध्यमम् । नीत्वा ध्यानसमाधिलक्षकरणैर्नानासनाभ्यासनैः ॥ प्राणापानसमागमेन सततं हंसोदरे संघटी। एवं येऽपि भजन्ति ते भवजले मज्जन्त्यहो दुःखितः ।। ८५॥ शक्त्याकुञ्चनमग्निदीप्तिकरणं त्वाधारसंपीडनात् स्थानात्कुण्डलिनीप्रबोधन्मनः (तः) कृत्वा ततो मूर्धनि । ल २०-गाटे (तं.). २१-पीटे ( ह.). २२-द्वारोदरे सन्धिनीम् (ह. ). द्वारोदरे शंखिनी ( तं.). २३ - प्राप्तां (तं.). २४-भजनं वाञ्छन्ति ये मोहिताः (ह.). २५-गमागमेन (ह.). २६ – सद्धटात् (तं.).
SR No.011032
Book TitleSiddha Siddhanta Paddhati
Original Sutra AuthorN/A
AuthorKalyani Mallik
PublisherPoona Oriental Book House Poona
Publication Year1954
Total Pages166
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy