SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 20 PATTAN CATALOGUE OF MANUSCRIPTS इह हि सन्तः संसारसागरतरणतरणिकल्पं जिनशासनमवाप्य सकलजन्मजीवितसारं परोपकारं मन्यते । स च संसारिणां सकलामङ्गलनिलयकर्मस्वरूपनिरूपणात् तदुन्मूलनप्रवृत्तानां सिद्धो भवतीत्यतस्तत्स्वरूपनिरूपणप्रवणं प्रकरणं चिकीर्षुर्गर्गमहर्षिर्मंगलाभिधानबंधुरां गाथामाह ववगयकम्मकलंक वीरं नमिऊण कम्मगइकुसलं । वोच्छं कम्मविवागं गुरूपय(इ)हुँ समासेणं ॥ तत्र वीरमिति विशेष्यं तं नत्वा कर्मविपाकं वक्ष्य इति संबंधः ॥ End:संप्रत्यंतरायनिगमनपूर्वकं प्रकरणकारः प्रकरणपरिसमाप्तिं स्वनाम चाह एवं पंचवियप्पं अट्ठमयं अंतराइयं होइ । भणिओ कम्मविवागो समासओ गग्गरिसिणा उ॥ एवं उक्तयुक्त्या पंचविकल्पं पंचप्रकार[मष्टमक]मंतरायकं भवति । उक्तमंतरायकं तदुक्तौ भणितः कर्मविपाकः समासतः संक्षेपतो गर्गऋषिणा यतिमतल्लिकावृंदवंद्य[पाद]पल्लवेन गर्गाभिधानमुनिनायकेनेति गाथार्थः ॥ ६७ ॥ अधुना ग्रंथप्रमाणप्रतिपादनपुरस्सरं तत्परिज्ञानोपायप्रतिपादनद्वारेण पर्यंतमंगलमाह एवं गाहाण सयं अहियं छावट्ठिए उ पढिऊण । . जो गुरु पुच्छइ नाही कम्मविवागं च सो अइरा ॥ श्रीभद्रेश्वरसूरिशिष्यतिलकश्रीशांतिसूरिप्रभोः श्रीमंतोभयदेवसूरिगुरवः सिंहासनोत्तंसकाः। तत्पादांबुजषट्पदेन परमानंदेन सत्प्रीतये चक्रे कर्मविपाकवृत्तिमिषतः श्रोत्रैकलेद्यं मधु ॥ यन्नागमानुगामि स्यान्न वा संगतिमंगति । इह तत् साधुभिः शोध्यमनभ्यर्थितवत्सलैः ॥ प्रत्यक्षरं निरूप्यास्या ग्रंथानं परिनिश्चितं । अनुष्टुभां नवशती द्वाविंशत्यधिकाभवत् । Colophon: कर्मविपाकवृत्तिः समाप्तेति । संवत् १२८८ वर्षे रखौ सुकर्मा च योगे
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy