________________
97
प्रास्ताविक-टिप्पनी। धनव्ययः समुपदिष्टः । यत्र जिनशासनपुस्तकानामपि दर्शितं तृतीयं स्थानम् । गूर्जरेश्वरसिद्धराजाभ्यर्थनया साङ्ग-सुवृत्ति-सुगम-सिद्धहेमशब्दानुशासनविधाता सुप्रसिद्धहेमचन्द्राचार्यः परमार्हतकुमारपालभूपालशुश्रूपिते स्वोपज्ञविवरणविभूपिते योगशास्त्रे (प्र. ३) "एवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु महाश्रावक उच्यते॥"
इत्यस्मिन् ११९ पद्ये सूचितायां जैनबिम्ब-भवनागम-साधु-साध्वी-श्रावक-श्राविकालक्षणायां सप्तक्षेत्र्यां जिनागमक्षेत्रमपि धनवपनाहमिति सविस्तरं प्राबोधयत्-"जिनागमक्षेत्रे च स्वधनवपनं यथा-जिनागमो हि कुशास्त्रजनितसंस्कारविषसमुच्छेदनमहामन्त्रा. यमाणो धर्माधर्म-कृत्याकृत्य-भक्ष्याभक्ष्य-पेयापेय-गम्यागम्य-सारासारादिविवेचनहेतुः सन्तमसे दीप इव, समुद्रे द्वीप इव, मरौ कल्पतररिव संसारे दुरापः । .
जिनादयोऽप्येतत्प्रामाण्यादेव निश्चीयन्ते। x x जिनागमबहुमानिना च देव-गुरुधर्मादयोऽपि बहुमता भवन्ति । किञ्च केवलज्ञानादपि जिनागम एव प्रामाण्येनातिरिच्यते। x x एकमपि जिनागमवचनं भविनां भवविनाशहेतु । xx . जिनवचनं तु दुःपमाकालवशादुच्छन्नप्रायमिति मत्वा भगवद्भिर्नागार्जुन-स्ख(स्क). न्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततो जिनवचनबहुमानिना पुस्तकेषु लेखनीयम् । वस्त्रादिभिरभ्यर्चनीयं च । यदाह
“न ते नरा दुर्गतिमाप्नुवन्ति न मूकतां नैव जडस्वभावम् । न चान्धतां बुद्धिविहीनतां च ये लेखयन्तीह जिनस्य वाक्यम् ॥ लेखयन्ति नरा धन्या ये जिनागमपुस्तकम् ।
ते सर्व वाङ्मयं ज्ञात्वा सिद्धिं यान्ति न संशयः ॥" जिनागमपाठकानां वस्त्रादिभिरभ्यर्चनं भक्तिपूर्व सन्माननं च । यदाह 'पठति०'
लिखितानां च पुस्तकानां संविग्नगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यापनम्, व्याख्यापनार्थ दानम् , व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणं चेति ॥"
इत एव प्रकाशिते प्राचीनगूर्जरकाव्यसङ्ग्रहे वि. सं. १३२७ वर्षीये सप्तक्षेत्रीरासेऽपि तद्विवेचनम् । तथा राजगच्छीयधर्मघोषसूरिप्रशिष्येण पं. पद्मप्रभ-देवप्रभसूरिशिष्येण प्रद्युम्नसूरिणा सङ्कलिते प्रा. विचारसारप्रकरणे [ आराधनाविधौ ], धर्मरत्नप्रकरणवृत्तिदानप्रदीपादौ च तस्यां सप्तक्षेत्र्यां जिनागम-पुस्तकलेखनाथ धनव्यय उपादेशिः। . २२. समवलोकनीयमत्र भूपाल-महामात्यादिनामसूचितपत्रेषु ।
२३. क्रियारत्नसमुच्चयादि-प्रशस्ति-गुर्वावली-सोमसौभाग्यकाव्य-तपागच्छपट्टावलीप्रमुख पर्यवलोकनीयम् ।