SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ जिनागमादि-लेखन- संरक्षणादि-प्रवृत्तिः । इत्यादि देशनया प्रोत्साहितैस्तै ( प्रह्लादोदयग्रामवासिभिः श्राद्धै: ) लेखितानि भगवद्विरचितनानासिद्धान्तवृत्तिपुस्तकानि प्रचुराणि । " — वि. सं. १२९५ वर्षे सुमतिगणिर्गणधर सार्वशतकबृहद्वृत्तौ [ अभयदेवसूरि-परिचये]. वि.सं. १९२० - २८ वर्षेषु अणहिलपाठकपत्तनादौ अभयदेवसूरिणा विरचितवृत्तीनां पुस्तकानि प्रभावकचरित (१९ शृङ्ग) प्रबन्धानुसारेण श्रुतदेवताप्रसादेन भीमभूपालराज्यकालीनाः पत्तनादिवासिनश्चतुरशीतिः श्रीमन्तः श्रावका लेखयित्वा सूरिभ्यः प्रदत्तवन्तः । धवलक्ककाधिकारिदण्डनायक जिणहाप्रभृतिना च लेखितानि तानीति वि. सं. १४२६ वर्षीयायां भक्तामरस्तव - वृत्तौ प. ८४ सूचितम् । १८. वि. सं. ११२९ वर्षेऽणहिलपाटके दोहट्टिश्रेष्ठिवसतौ सन्तिष्ठता नेमिचन्द्रसूरिणा विरचितायामुत्तराध्ययनसूत्र - वृत्तौ [ अ. ८] सर्वदेवगणिलिखितपट्टिकातो दोहट्टिश्रेष्ठिना लेखितायां प्रथमायां प्रतौ प्राचीनमिदं पद्यमुद्धृतम् "आरोग्य - बुद्धि - विनयोद्यम - शास्त्ररागाः पञ्चान्तराः पठनसिद्धिगुणा भवन्ति । आचार्य - पुस्तक - निवास - सहाय - बल्भा बाह्यास्तु पञ्च पठनं परिवर्धयन्ति ॥" १९. श्रीजिनचन्द्राचार्याभयदेवसूरिविनेयप्रसन्न चन्द्र सूविचनेन सुमतिवाचकविनेयेन गणिना गुणचन्द्रेण वि. सं. ११३९ वर्षे छत्रावल्लिपुर्यां विरचितं १२०२५ पद्यपरिमितं प्रा. वीरजिनचरितं याभ्यां कारितम्, ताभ्यां कर्पटवाणिज्यपुरवासिनः सुधार्मिक कृत्यतत्परस्य वाकुलीनश्रेष्टिनो गोवर्धनस्य पौत्राभ्यां जजनागस्य च पुत्राभ्यां सिद्ध - वीरनागाभ्यां सकलागमपुस्तकानां लेखनेन श्रुतज्ञान - प्रपा प्रवर्तिताऽऽसीदिति तत्प्रशस्तौ समसूचि“अन्नाण-तण्हसमणी सुयनाण - पवा पयट्टिया जेहिं । सयलागमपोत्थय लेहणेण निचं पि भवाण || " २०. वि. सं. ११७२ वर्षे श्रीमदभयदेवसूरिशिष्यवर्धमानसूरिः “तदेतद् दानतः सर्वं तच्च दानं त्रिधा मतम् । विज्ञानाभयमेदेन धर्मोपग्रहतस्तथा ॥ उक्तं च--' -" किं किं दत्तं न तेनेह ? किं किं नोपकृतं नृणाम् । येनागणितखेदेन ज्ञानसत्रं प्रवर्तितम् ॥ न ज्ञानदानाधिकमत्र किञ्चिद् दानं भवेद् विश्वकृतोपकारम् । ततो विदध्याद्धि पुनः खशक्त्या विज्ञानदाने सततप्रवृत्तिम् ॥ 'पठति पाठयते पठतामसौ वसति - भोजन- पुस्तक - वस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इह सर्वविदेव भवेन्नरः ॥' - धर्मरत्नकरण्डकस्य खोपज्ञविवृतौ [ही. हं. भा. २, पृ. ४८०, ४८१ ] २१. प्रा. सत्तठाण ( सप्तस्थानानि ) संज्ञयोपलभ्यमाने प्राचीने ग्रन्थे जिनबिम्ब - जिनचैत्यगृह - जिनशासन पुस्तक - साधु- संयता श्रावक-श्राविकाऽऽत्म के स्थानसप्तके सद् 496
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy