SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ 881 No. III SANGHA BHANDARA विनीता हरिपालस्य माल्हणिर्नाम गेहिनी । नंदना जनितास्ताभ्यां चत्वारो रम्यमूर्तयः ॥ १६ ॥ जगतसिंहस्य दयिता सजना तनयत्रयं । प्रसूते स्म सुतां चैकां शीलालंकारडंबरां ॥ १७ ॥ ज्येष्ठस्तिहुणसिंहाख्यः पूर्णसिंहाभिधोऽपरः । तृतीयो नरदेवोथ तनया तेजलाह्वया ॥ १८ ॥ आस्ते तिहुणसिंहस्य रुक्मिणी नाम वल्लभा । तयोर्ललवणसिंहोऽस्ति सुतः सुता च लक्षमी ॥ १९ ॥ रंगात् कटुकराजेन मोहिनिः पर्यणीयत । चत्वारो नंदनास्ताभ्यां जनिता जनरंजनाः ॥ २० ॥ पुत्र्यौ शीलपवित्रे च मूर्ती द्वे धर्मयोरिव । पूर्णदेवी तयोराद्या वयजेत्यपरा मता ॥ २१ ।। धौरेयः सोहियो नाम सहजाकाभिधोपरः । तृतीयो रत्नपालोभूदमृतपाल इत्यथ ॥ २२ ॥ सोहियस्य प्रिया ज्येष्ठा ललितादेविसंज्ञिता । तत्सुता प्रीमलादेवी जैत्रसिंहस्य वल्लभा ॥ २३ ॥ ताभ्यां जातौ कलावंतौ सुतौ द्वौ धर्मनिर्मलौ । परोपकारसामर्पो धारावर्पोग्रजोऽभवत् ॥ २४ ॥ द्वितीयो मल्लदेवोऽस्ति कुलालंकारकौस्तुभः । तप्रिया गौरदेवीति श्वश्रूशुश्रूषणोद्यता ।। २५ ॥ सोहियस्य द्वितीयास्ति शीलुकेत्याख्यया प्रिया । गुरुत्वगुणगंभीरा पतिभक्तिपवित्रिता ॥ २६ ॥ तयोरासीत् सुतो भीमसिंहनामाग्रजः सुधीः । महत्त्व-सत्त्वमुख्यानां गुणानां जन्मभूमिका ॥ २७ ॥ परः प्रतापसिंहोस्ति गुरूणां भारहारकः । नाम्ना चाहिणिदेवीति प्रिया तस्यास्ति पावना ॥ २८ ॥ पुज्यौ द्वे सोहियस्याथ शीलुकाकुक्षिसंभवे । जाते जात्यमहारत्नतेजोनिर्मलमानसे ॥ २९ ॥ नालदेवी तयोर्मध्यादाद्या दानविशारदा । परा कील्हणदेव्याख्या साक्षादिव सरस्वती ॥ ३० ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy