SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ 380 PATTAN CATALOGUE OF MANUSCRIPTS Pras'asti of the Donor: ६० ॥ वंशः प्राग्वाटेनामास्ति सर्ववंशशिरोमणिः । यो जातश्चोत्त (चित्र) माधारो महतामपि भूभृतां ॥ १ ॥ तत्राभूद् भरतो नाम पुरुषः पुण्यपूरितः । सदाचाराध्वपांथेयो धौरेयो धर्म्मधारिणां ॥ २ ॥ सुतस्तस्य यशोनागो गुणानां जन्ममंदिरं । यशोभिर्भृतभूभागः सुभगो वामचक्षुषां ॥ ३ ॥ पद्मसिंहः सुतो जातस्तस्य सिंहपराक्रमी । येन भूपाज्ञया प्राप्तं पदं श्रीकरणादिषु ॥ ४ ॥ जज्ञे तिहुणदेवीति पत्नी तस्य शुभाशया । या पितुश्च भर्तुश्च गुणैवंशो विभूषितः ॥ ५ ॥ तयोः क्रमेण चत्वारस्तनयाः पुण्यशालिनः । आसन् धार्मिकधौरेयाः सुशीले द्वे च पुत्रिके ॥ ६ ॥ तेषामाद्यो यशोराज आशराजस्ततोऽपरः । तृतीयः सोमराजाख्यश्चतुर्थो राणकाह्वयः ॥ ७ ॥ सोदुकेत्याख्यया ज्येष्ठा कनिष्ठा सोहिणिराया । धर्मेण निर्ममे शुद्धे सोदुकाहृदये पदं ॥ ८ ॥ महाव्यापारनिष्ठस्य यशोराजस्य वल्लभा । जज्ञे सूहवदेवीति सती सीमंत मौक्तिकं ॥ ९ ॥ तयोराद्यः सुतः पृथ्वीसिंहाख्योऽभूत् कलांबुधिः । परः प्रह्लादनो नाम विजयी पुत्रिके उभे ॥ १० ॥ तन्मध्यात् पेथुकास्त्येकाऽपराभून्नाम सज्जनी | प्रह्लादनप्रियतमा माधलास्ति विवेकिनी ॥ ११ ॥ देवसिंहः सोमसिंहः सुतौ द्वौ तिष्ठतस्तयोः । पद्मला सद्मला राणी तिस्रस्तिष्ठति पुत्रिकाः ॥ १२ ॥ 'पेथुका चंपलादेवीं नरसिंहं महामनाः । आसलस्य प्रिया पुण्यं हरिपालमजीजनत् ॥ १३॥ सुता राजलदेवीति चंपलायाः पतिव्रता । स्वकीय मातृशोकार्त्तिसंहारपरमौषधी ॥ १४ ॥ वल्लभा नरसिंहस्य नायकीदेविनामिका । तत्सुता गौरदेवीति मातृवद् धर्मनिर्मला ॥ १५ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy