SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ 882 PATTAN CATALOGUE OF MANUSCRIPTS आसीत् सुहागदेवीति सहजाकस्य वल्लभा । तयोर्माल्हणदेवीति सुतास्ति शीलशालिनी ॥ ३१ ॥ विरक्तोमृतपालोथ सर्वान संबोध्य मातुलान् । गच्छे श्रीमलधारिणां व्रतं जग्राह साग्रहः ॥ ३२ ॥ सोमराजस्य वर्तित्वं धर्मसीमासमन्वितं । न केषामुपकाराय जातं वात्सल्यवारिधेः ? ॥ ३३ ॥ सुसाधोः कुलचंद्रस्य विख्यातव्यवहारिणः । सुता जासलदेव्याश्च जैनधर्मेण वासिता ॥ ३४ ॥ नाम्ना राजलदेवीति राणकस्य प्रियाऽभवत् । यस्यां सत्यां गृहे भर्तुः क्लेशलेशोपि नाजनि ॥ ३५ ॥ तयोः संग्रामसिंहाख्यः सुतो जातोऽस्ति विश्रुतः । श्रियोपकुर्वता येन निजानां जगृहे मनः ॥ ३६॥ सुताभयकुमारस्य सलक्षणांगसंभवा । सुहडादेविरस्यास्ति प्रिया दान-दयाप्रिया ॥ ३७ ॥ तदीयो हर्पराजोऽस्ति पुत्रः स्वगोत्रपावनः । माता-पित्रोः समादेशं यो न कुत्रापि लंघते ॥ ३८ ॥ हर्पराजेन रागेण लषमादेविसंज्ञिका । परिणीता विनीतात्मा सतीव्रतविभूपिता ॥ ३९ ॥ गौरदेवीति नामास्ति कनिष्ठास्य सहोदरा । पीयूषप्रायवचनैर्माननीया मनीपिणां ॥ ४० ॥ सुतः संग्रामसिंहस्य सुहडादेविसंभवः । नाम्ना कटुकराजोऽस्ति द्वितीयो नयनामृतं ॥ ४१ ।। श्रीमलधारिसूरीणां हितामाकर्ण्य देशनां । श्रेयसे सुहडादेव्या सिद्धांतातीवभक्तया ॥ ४२ ॥ भर्तुः संग्रामसिंहस्य साहाय्या विशदाक्षरैः । पुण्या पर्युषणाकल्पपुस्तिका लेखिता नवा ॥ ४३ ।। स्वामिनां शृण्वतां व्याख्याकारिणां पुण्यसंचयं । वर्द्धयंती सदा सर्वैराचंद्रं वाच्यतामसौ ॥ ४४ ॥ ॥ मंगलमस्तु ॥ ५ ॥ ६०३ ॥ ७ ॥ ५ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy