________________
370
Pattan CATALOGUE OF MANUMORIPTS स्तुत्यः कस्मिन् न धर्मसूरिसुगुरुर्यस्योपदेशात् पुरे __ स्वस्मिन् कारयति स्म विग्रहनृपो जैनं विहारं द्रुतं । यस्मिंस्तस्य गिरा चकार च गुरुबिंबप्रतिष्ठा[विधि]
भूयोप्यस्य गिरा निवारितवधामेकादशी स्वक्षितौ ॥ २९ ॥ ऊर्वीकृत्य भुजं वदाम्यनुपम श्रीधर्मसूरेगिरा__ मादेयत्वमसौ यदस्य वचसा श्रीविग्रहेशः स्वयं । यस्मिन् राजविहार-दंड-कलशारोप-प्रतिष्ठादिने
साधु श्रीअरिसीह-मालवमहींद्राभ्यां ध्वजे लग्नवान् ॥ ३०॥ पीत्वा पीत्वा श्रुतिभ्यां दिशि दिशि विशदानंदमन्ना महांत
स्तत् तच्चित्रं चरित्रं जिनमतविततोत्सर्पणाकारि तस्य । शैथिल्यं नित्यकृत्येष्वपि दधति मुहुस्तत्परामर्शवश्या
स्तस्य श्रीधर्मसूरेर्गुणलवमपि कः स्तोतुमस्मादृशः स्यात् ? ॥३१॥ एते शासनदेवि ! किंचिदुचितं विज्ञापयामो वयं
व्यासंगांतरतो निवृत्य हृदयं मातः ! समाकर्णय । लोकेस्मिन् जिनशासनोन्नतिकृतः श्रीधर्मसूरिप्रभो
रक्षां कांक्षित-कल्पवल्लरि ! परोक्षाः समास्त्वं क्रियाः ॥ ३२ ॥ एतां श्रीधर्मसूरीणां स्तुति मुक्तालतामिव ।
सतां कंठोत्थितां चक्रुः श्रीरविप्रभसूरयः ॥ ३३ ॥ (२०) धर्मसूरिस्तुति (बारह नावउं द्वादशमास अपभ्रंश ).
प. २१६-२२१ Beginning:
तिहुयणमणिचूडामणिहिं बारह नावउं धमुसुरिनाहह । निसुणेहु सुयणहु ! नाणसणाहह पहिलउं सावणु सिरि फुरिय ॥ ६ ॥ कुवलयदलसामल घणु गजइ नं मद्दलु मंडलझुणि छज्जइ । विजुलडी झबकिहिं लवइ मणहरु वित्थारेवि कलासु ।
अन्नु करेविणु कलि केकारवु फिरि फिरि नाचहिं मोरला । मेइणि हार हरिय छमि णवर त्रीजण-भय उहिय नीलंबर वियलिय नवमालइ कलिय ॥२॥ हलि ! तुह कहियई गुणइं निहाणु धमसुरि अनु जससूरिसमाणु । 'अनु न भत्थि को वि जगि