SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 358 PATTAN CATALOGUE OF MANUSCRIPTS यो व्यधापयदनिंद्यमुत्तमं पापकर्म-पटलक्षयक्षमं । उत्तराध्ययनवृत्तिपुस्तकं ज्ञानभक्तिवरागः स्वमुक्तये ॥ ९ ॥ किं बहुना यः स्वं स्वं धर्मस्थानेष्वयोजयद् बहुशः । यश्चाजस्रं वंदनक - गुणन - सदूध्यानरतचित्तः ॥ १० ॥ श्रेष्ठी वरदेवाख्यः समजनि लक्ष्मीरतिप्रिया तस्य । लक्ष्मीः सौरेरिव हृदयहारिणी चारुरूपाढ्या ॥ ११ ॥ तयोश्च पुत्रः समभूत् प्रसिद्धः सिद्धाभिधः पुण्य- धनैकधामा । आदेयवाक्यो गुणिपक्षवत्तां (वर्त) वीरः कृतज्ञो रतिकांतरूपः ॥ १२ ॥ बादरो यो जिनराजधर्मे यश्चोपचक्रे जिनमंदिरेषु । यो मध्यबुधिवत् सुमेधा यो राजलोकेऽभिमतो गुणैः स्वैः ॥ १३ ॥ दृढप्रतिज्ञः प्रतिपन्नकार्ये दाक्षिण्यपाथोनिधिरस्तदोषः । दानांबुबर्पित्वपयोदकल्पः सदा सदाचारपरायणो यः ॥ १४ ॥ भगिनी यस्य च श्री... रासीच्चामृतदेविका । जिनमत्याख्या यशोराजपाजकांपा (?) तथा परा ॥ १५ ॥ यश्च दधिपद्रपत्तन वास्तव्योऽपि प्रकथ्यते लोकैः । पूर्व निवासापेक्षावशेन मड्डाहडपुरीयः ॥ १६ ॥ द्वे भार्ये तस्य संजाते पत्याज्ञारतमानसे । राजमत्यभिधानेका श्रियादेवी द्वितीयका ॥ १७ ॥ वीरदत्त पसरणादयः सूनवो वीरिका - जसहीणिप्रभृतयः पुत्रिकाः । तस्य जाताः सदाचारिमार्गे रताः सर्वलोकीयचेतः तिः प्रणयावहाः ॥ १८ ॥ अथान्यदा सिद्धपिता स्वकीयं पर्यंतमासन्नतरं प्रमत्य । परत्र पाथेयमतो जिघृक्षुः सिद्धाभिधं पुत्रमिदं जगाद ॥ १९ ॥ मच्छ्रेयसे वत्स ! वरेण्यतीर्थयात्रासु संघे जिनराजवेश्मनि । विशेषतः पुस्तक लेखनेषु वित्तं नियोज्यं भवता यथेच्छं ॥ २० ॥ . अथासौ गते ताते लक्षं ग्रंथस्य साधिकं । पुस्तकेषु पवित्रेषु दशसंख्येब्वली लिखत् ॥ २१ ॥ तत्थ य गंथा सूयगडंगवित्ती ससुत्त - निज्जुती । तह य उवासगदसियाइअंगसुत्ताणि वित्तीओ ॥ २२ ॥ तह ओवाउ (इ)यसुत्तं वित्ती रायप्पसेणइयत्तं । तह कप्पसुत्त-भासा चउत्थए पंचमे य पुणो ॥ २३ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy