SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ 355 No. III SANGIHA BHANDARA उत्फुल्लोद्देशपत्रं सुरसपरिमलोद्गारसारं वितेने तं निःसंबंधबंधुं नुत मुनि-मधुपा ! भास्करं भाष्यकारं ॥ ३ ॥ श्रीकल्पाध्ययनेऽस्मिन्नतिगंभीरार्थभाष्यपरिकलिते । विषमपद-विवरणकृते श्रीचूर्णिकृते नमः कृतिने ॥ ४ ॥ भुतदेवताप्रसादादिदमध्ययनं विवृण्वता कुशलं । यदवापि मया तेन प्राप्नुयां वोधिमहममलां ॥ ५ ॥ गम-नय-गभीरनीरश्चित्रोत्सर्गापवाद-वादोर्मिः । युक्तिशत-रत्नरम्यो जैनागम-जलनिधिर्जयति ॥ ६ ॥ श्रीजैनशासन-नभस्तल-तिग्मरश्मिः श्रीसद्म-चांद्रकुल-पद्मविकाशकारी । स्वज्योतिरावृतदिगंबरडंबरोऽभूत् श्रीमान् धनेश्वरगुरुः प्रथितः पृथिव्यां ।। ७ ॥ श्रीमच्चैत्रपुरैकमंडनमहावीरप्रतिष्ठाकृत स्तस्माच्चित्रपुरप्रबोधतरणेः श्रीचैत्रगच्छोऽजनि । तत्र श्रीभुवनेंद्रसूरिसुगुरुभूभूषणं भासुर ज्योतिः सद्गुण-रत्न-रोहणगिरिः कालक्रमेणाभवत् ॥ ८ ॥ तत्पादांबुज-मंडनं समभवत् पक्षद्वयीशुद्धिमान नीर-क्षीरसदृक्षदूषण-गुण-त्याग-ग्रहैकवतः। कालुष्यं च जडोद्भवं परिहरन् दूरेण सन्मानस स्थायी राजमरालवद् गणिवरः श्रीदेवभद्रप्रभुः ॥ ९॥ शस्याः शिष्यास्त्रयस्तत्पद-सरसिरुहोत्संगशृंगार-भुंगा विध्वस्तानंगभंगाः सुविहितविहितोत्तुंगरंगा बभूवुः । तत्राद्यः सञ्चरित्रानुमतिकृतमतिः श्रीजगञ्चंद्रसूरिः ___श्रीमद्देवेंद्रसूरिः सरलतरलसच्चित्तवृत्तिद्धितीयः ॥ १० ॥ तृतीयशिष्याः श्रुत-वारि-वार्द्धयः परीपहाक्षोभ्यमनः-समाधयः । जयंति पूज्या विजयेंदुसूरयः परोपकारादिगुणौघभूरयः ॥ ११ ॥ प्रौढं मन्मथ-पार्थिवं त्रिजगतीजैत्रं विजित्येयुषां __येषां जैन-पुरे परेण महसा प्रक्रांतकांतोत्सवे । स्थैर्य मेरुरगाधतां च जलधिः सर्वसहत्वं मही __ सोमः सौम्यमहर्पतिः किल महत् तेजोऽकृत प्राभृतं ॥ १२ ॥ वापं वापं प्रवचनवचो-बीजराजी विनेय क्षेत्रवाते सुपरिमलिते शब्दशास्त्रादि-सीरैः ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy