SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ 858 No. III Sangha BAANDĀRA बभूव प्रेयसी तस्य पृथ्वीदेवीति नामतः । विनीतविनया नित्यमौचित्यप्रियकारिणी ॥ २७ ॥ तदनु तनयो द्वितीयः समजनि धनसिंहनामको विनयी । निर्मलकलाकलापस्त्रैणक्रीडादिरभिरामः ॥ २८ ॥ नाना धांधलदेवीति संजज्ञे तस्य गेहिनी । पुण्यार्जनोर्जितश्लाघा श्लाघ्यकाभिरंजिका ॥ २९ ॥ ततस्तृतीयोजनि रत्नसिंहः संतापकारिव्यसनेभसिंहः । दूरं परित्यक्तविरुद्धसंगः श्रीमजिनेंद्रक्रम-पम-,गः ॥ ३० ॥ तस्याजनिष्ट दयिता नाम्ना राजलदेविका । पेथुकाख्या तयोः पुत्री समस्तानंददायिनी ॥ ३१ ॥ अनन्यसौजन्यजनानुकीर्णो विवेकलीलोज्वलचित्तवृत्तिः । सार्वत्रिकौचित्यविधिप्रवीणो जज्ञे जगत्सिंहसुतश्चतुर्थः ।। ३२ ॥ पनी जाल्हणदेवीति नाम्ना तस्य समजनि । कुत्राप्यनुत्सेकवती प्रदान-विनयान्विता ॥ ३३ ॥ सोलुकाख्या ततः पुत्री बभूव प्रियवादिनी । यस्याः शीलजलैः शुद्धैः पुण्यवल्ली प्रवर्द्धिता ॥ ३४ ॥ पत्नी ततोजायत पल्हणस्य माणिक्यमालास्फुरदंशु-शीला । जिनोपदेशश्रुति-कर्णसारा कृपा-प्रपा माणिकिनामधेया ॥ ३५ ॥ समजनि तयोस्तनूजो वरणिगनामा समस्तगुण-पात्रं । निखिलस्वकुलैकधुरा-धुरंधरः स्मित-मधुरभापी ।। ३६ ॥ बभूव प्रेयसी तस्य धनदेवीति विश्रुता । दाक्षिण्योज्ज्वलशीलेन सर्वेषां मोददायिनी ॥ ३७ ॥ अजायंत ततस्तिस्रः शीलालंकरणाः सुताः । कर्पूरदेवी-भोपलदेव्यौ वील्हणदेव्यपि ॥ ३८ ॥ अभूद् देवकुमारस्य प्रेयसी छड्डिकाभिधा । । पतिव्रतासमाचार-चातुयोर्जितसयशाः ॥ ३९ ॥ कुमारपालसुतोभूत् पितुराज्ञोद्यतस्तयोः । जिनशासनानुरागी विरागी दोषवस्तुषु ॥ ४० ॥ विवेक-रविरन्येद्युः स्फुरति स्मातिनिर्मलः । संतोषाया मानसाद्रौ विद्राविततमस्ततिः ॥ ४१॥ 45
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy