SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ 352 PATTAN CATALOGUE OF MANUSCRIPTS ठक्करशोभनदेवस्तामथो परिणीतवान् । संतोषभूषिता जाता संतोषाख्या तयोः सुता ॥ १५ ॥ श्रीसर्वज्ञपदांबुजार्चनरतिः संप्राप्तपुण्योन्नतिः किंचिन्मीलितमालतीदलभरस्वच्छेतिशीले मतिः । भक्त्यावेशसमुल्लसद्गुरुनतिर्विस्तीर्णदानस्थिति निश्छ कतपोविधानवसतिर्यस्या गुणैः संगतिः ॥ १६ ॥ दाक्षिण्योदधिभांडशालिकयशश्चंद्रस्य पुत्रोपरो धर्मोद्दामनराग्रणीरिह यशःपालाभिधः शुद्धधीः । पण्यस्यापि न केवलैव महती भांडस्य शाला कृता श्रीआद्यं वरिवस्यतां जिनपतिं येनात्र धर्मस्य च ॥ १७ ॥ भांडशालियशःपालस्याभवजयदेविका । औदार्य-शीलप्रमुखैः प्रेयसी श्रेयसी गुणैः ॥ १८ ॥ अभवंस्तयोस्तनूजाः सच्चरितास्त्रयो गुणैः । आनंददायिनः पित्रोरन्योन्यं प्रीतिशालिनः ॥ १९ ॥ आधः सुतः संश्रितधर्मका विवेकवेश्माजनि पार्श्वदेवः । अभ्यर्थन............भीरुः प्रकल्पितश्रीजिननाथसेवः ॥ २० ॥ अन्यो बभूवांबडनामधेयः कस्याप्यसंपादितचित्तपीडः । स्वकीयसंतानधुराधुरीणः स्ववेश्मलक्ष्मीहृदयैकहारः ॥ २१ ॥ सौचित्याचरणनिपुणः प्रीतिपूर्वोभिलापी [मुखाजिन्यार्जितगुरुगुणः सिद्धिवेश्म । गोत्राच रो जिन-गुरुपदाभ्यर्चनप्रहचेता-] स्तार्तीयीकस्तदनु तनुजः पल्हणाख्यो बभूव ॥ २२ ॥ पार्श्वदेवस्य संजज्ञे पद्मश्रीनामिका प्रिया । यस्याः पतिव्रतात्वेन स्वकुलं निर्मलीकृतं ॥ २३ ॥ अथांबडस्योचितकृत्यदक्षा मंदोदरी नाम बभूव पत्नी । स्फुरद्विवेकोजवलसारहारा स्वमंदिरे मूर्तिमतीव लक्ष्मीः ॥ २४ ॥ हरेरिव भुजादंडाश्वस्वारस्तनयास्तयोः । अजायंत सदाचार-गृहमारधुरंधराः ॥ २५ ॥ प्रथमोजनिष्ट तेषां पार्श्वकुमाराभिधो गुणैः प्रथमः । विनयगुमालवाला पित्राज्ञापालनप्रवणः ।। २६ ।।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy