SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ___No. III SANGITA BHANDARA 351 तस्याभूल्ललना नाम्ना लल्लिका भांडशालिनी । शील-मुक्तावली कंठे यया दधे समुज्वला ॥ ३ ॥ संतस्तयोस्त्रयः पुत्राः पवित्राश्चरितैः शुभैः । अजायंतागारभारोद्धारधुर्यत्वविश्रुताः ॥ ४ ॥ तेषां जविष्ठोऽजनि भांडशाली ख्यातो गुणैालकनामधेयः । श्रीमजिनाज्ञाकरणप्रतिज्ञाविभूपणं वक्षसि यस्य य(ज)ज्ञे ॥ ५ ॥ शुद्धात्माजनि भांडशालिकयशश्चंद्राभिधानोऽपरः श्रीमद्देव-गुरुप्रयोजनविधौ बद्धादरोऽनारतं । येनौदार्यगुणैरनर्गलतरैरावर्य(ज्य) विश्राणिता पात्रेषु स्थिरताप्रवर्तनकृते लक्ष्मीर्मन:स्वीच्छया ॥ ६ ॥ ततोऽभवद् देवकुमारनामा सुतो गुणर्दवकुमारमूर्तिः । प्रवर्त्तयनिःकपटं जिनानां वयाँ सपर्यामवदातचित्तः ॥ ७ ॥ लोलाकस्याभवद् भांडशालिनो भांडशालिनी । लक्ष्मीरित्यभिधानेन जिनपूजापरायणा ॥ ८ ॥ भांडशालिनो द्वौ पुत्री लोलाकस्य बभूवतुः । धंधूकाभिधः प्रथमः श्रीमदाद्यजिनार्चकः ॥ ९ ॥ वाहिनी गेहिनी तस्य बभूव प्रियवादिनी । यशोवीरस्तयोः पुत्रः सुशीला सिंधुका सुता ॥ १० ॥ धर्मोच्छंखलभांडशालिकयशश्चंद्रस्य दानप्रिया नित्यौचित्य-विनीतताऽऽर्जवगुणालंकारशृंगारिता । वर्यौदार्यगुणैविवेकविशदैरं यया रंजिता आत्मन्यप्रतिमप्रमोदपरतां नीताः समस्ता जनाः ॥ ११ ॥ सा जज्ञे गेहिनी नाम्ना जिंदिका भांडशालिनी । सुकृतोपार्जिका श्रीमद्देव--सद्गुरुपूजया ॥ १२ ॥ यशश्चंद्रस्य जज्ञाते द्वेऽपये भांडशालिनः। . स्वगृह श्रियः सीमंतमौक्तिकतिलकोपमे ॥ १३ ॥ आद्या पुत्री समजनि वरा राजिकानामधेया मंदाकिन्युल्लसितलहरीशीलसंभूपितांगी। यस्या अंतःकरणमृदुतासंगतं जंतुजातं . लक्ष्मीः साक्षादिव निजगृहे जंगमा यावतीर्णा ॥ १४॥ .
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy