SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ 347 No. III SANGHA BHANDARA 347 Pras'asti of the Donor: परस्परपरिस्यूतनयगोचरचारिणी । अनेकांतामृतं दुग्धे यद्गवी तं जिनं स्तुमः ॥ १ ॥ अप्राप्तोऽपि हि खंडनां गुणवते धर्माय हिंस्रो न वा छायाभिः प्रणिहंति तापमभितो मुक्तः सदा पल्लवैः । निश्छिद्रोपि करोति यः श्रुतिसुखं वंशः क्षमाभृद्घनो लासी कोपि महीतले स जयति श्रीमालनामा नवः ॥ १ ॥ वंशेऽत्र तेजोद्भुतवृत्तशाली मुक्तामणिर्वोसरिसंज्ञकोभूत् । तस्थौ न केषां हृदये गुणेन निजेन यश्छिद्र विनाकृतोपि ॥ २ ॥ शचीव देवराजस्य रोहिणीव सितातेः । सद्वासनेव धर्मस्य लक्ष्मीस्तस्य प्रियाऽभवत् ॥ ३ ॥ अचलस्थितिः कुरंगव्याघाती नरवरवृत्तिसंयुक्तः । सिंह इव वैरिसिंहः सुतः सुता चानयोर्मादः ॥ ४ ॥ गेहिनी गेहनीतिज्ञा तस्य श्रीरिव देहिनी। अभूदानलदेवीति धर्मकर्मसु कर्मठा ॥ ५ ॥ असूत सा पंच सुतान् मनुष्यक्षेत्रस्य धात्रीव सुमेरुपर्वतान् । परं सदाप्येकमुखत्वमेषां केषां न रेखाकरमस्ति चित्ते ॥ ६ ॥ आद्योऽस्ति भांडशालिकमदनो लाडीपतिर्जिनप्रतिमाः । कारितवान् मंगलपुरचैत्ये पुण्याय पितृ-मात्रोः ॥ ७ ॥ प्रवरां वेलाकूले पोषधशालां च मातृपुण्याय । तनया विनयादिगुणोपेताः पंचास्य विद्यते ॥ ८ ॥ क्षेमसिंह-भीमसिंही तेजसिंहारिसिंहको । पंचमो जयसिंहस्तु दुहिता जासलाभिधा ॥ ९ ॥ प्रथमोपि धर्मकार्य द्वितीयीकस्तु[ मन ]लघुबंधुः । कलिकाल-मत्तकरि[वर]-वरसिंहो विजयसिंहोस्ति ॥ १० ॥ यथा प्रभा प्रभाभर्तुर्यथा चंद्रस्य चंद्रिका । यथा छाया शरीरस्य तथाशेषगुणाश्रया ॥ ११ ॥ पूनी दयिताऽस्योदयपालोदयमतसुता विरेजे या । निजवंश-प्रासादे विमलगुणा वैजयंतीव ॥ १२ ॥ युग्मं ॥ आद्योस्ति राजसिंहस्तनयो जैत्रसिंह इतरस्तु । नायकि-सहजल-सोहग-पद्मलनाभ्यस्तु पुज्य इमाः ॥ १३ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy