SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ 845 45 No. III SANGAA BAANDĀRA नरपालश्च हापाकस्त्रिभुवनस्तु कालुकः। केल्हाकः पेथडश्चैव षडेते सुरसुंदराः ॥ ९ ॥ स्थविरपालस्य साहाज्जा(य्या)त् श्रीरत्नप्रभसूरिभिः । विशालाया धर्मविधेः पुस्तकं वाचितं वरं ॥ १० ॥५॥ (२) ॥६०॥ कच्छूलिकामंडनपार्श्वनाथपादारविंदस्य मरालतुल्यः । प्राग्वाटवंशे भुवनावतंसे बभूव पूर्व सहदेवनामा ॥ १ ॥ गुणचंद्रनामा तनयस्तदीयः श्रीवत्सनामा च तदंगजोऽभूत् । श्रीवत्सपुत्रा जगति प्रसिद्धा अमी बभूवुर्गुणराशिसंयुताः ॥ २ ॥ छाहडो निरुपमाकृति-रूपो धर्मकर्मनिपुणो यशोभटः । श्रीकुमारतनयस्तु तृतीयो वीतराग-गुरुपूजनापरः ॥ ३ ॥ छाहडस्य च शाखायां श्रीमाणिक्यप्रभसूरयः। गुरवश्व ततो जाताः श्रीकमलसिंघसूरयः ॥ ४ ॥ यशोभटस्य शाखायां श्रीश्रीप्रभसूरयः । वयं च गुरवो जाताः प्रज्ञातिलकसूरयः ।। ५ ।। श्रीकुमारेण च पुरा वृद्धग्रामे अचीकरत् । श्रीकमलसिंघसूरीणां पदस्थापनमुत्तमं ॥ ६ ॥ श्रीकुमारदयिता अभयश्रीः साल्हकस्तदनु बोडकाभिधः । साल्हकः सुगुरु-धर्मतत्परास्तस्य चैव तनयाः प्रबभूवुः ॥ ७ ॥ सोभाकस्य च जायाभूनाम्ना अविधवा सदा । सोला-गदाकनामानौ बभूवतुः सुतौ तयोः ॥ ८ ॥ गदाकस्य च जायाभूत् प्रथमा रतनिकाभिधा । श्रियादेवी द्वितीया च मूर्ति(ता)लक्ष्मीरिवापरा ॥ ९॥ कर्मा-भीमाकनामानौ श्रियादेव्याश्च नंदनौ । भीमाकस्येव दयिता रुक्मिणी रुक्मिणी परा ॥ १० ॥ रुक्मिण्याश्च त्रयः पुत्रा बभूवुर्धर्मकारकाः । लींबाकः सोहडश्चैव पेथाकश्च तृतीयकः ॥ ११ ॥ लीबाकभार्या गरी प्रसिद्धा भक्तौ जिनेंद्रस्य जसाक-डूंगरौ । पुत्रौ द्वितीयौ सदन प्रसिद्धौ पुत्र्यश्च तिस्रो भुवने हि यस्याः ॥ १२ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy