SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ 342 Pattan CATALOGUE OF MANUSCRIPTS जिनेंद्रपूजारचनानुबंधबद्धोद्यमो निर्मलकीर्तिशेषः । भक्त्या समासेवितसर्वदेवस्ततोनुजो जायत सर्वदेवः ॥ २६ ॥ मुक्ताफलारंभरतिर्नदीनो विश्रामभूमिः पुरुषोत्तमानां । पयोधिवन्नित्यगभीरभावः षष्ठस्तनूजोऽजनि चापदेवः ॥ २७ ॥ तत्रासीद् रामदेवस्य वल्लभा शीलशालिनी । आसदेवीति विख्याता सुरूपा रूपिकापरा ॥ २८॥ यशोधरस्य जाया च थेहिका हितकारिणी । शोभना सर्वदेवस्य चापदेवस्य शांतिका ॥ २९ ॥ अस्ति स्म थेहड इति प्रथितामिधानः कुंदावदातहृदयः सदयः सदैव । धीरो यशोधरसुतः कलितः कलाभिनित्यप्रशस्तचरितः प्रणतो गुरूणां ॥ ३० ॥ आनंदकः सुमनसां सततं सुधर्मवद्धादरः कृतविमानमनःप्रवृत्तिः । आस्ते महेंद्र इव वल्लभचित्रलेखः श्रीरामदेवतनयो विनयी महेंद्रः ॥ ३१ ॥ हरिचंद्राभिधानश्च द्वितीयोभूत् तनूद्भवः । वल्लभः सर्वलोकानां प्रतिपच्चंद्रमा इव ॥ ३२ ॥ विनयी नयसंवासो चापदेवस्म नंदनः । गोसलाख्यः सुशीलोभूद् गुण-रत्न-महानिधिः ॥ ३३ ॥ आसीदाद्या महेंद्रस्य महाश्रीरूपसप्रिया । राज्यश्रीः शील-कारुण्य-दानौचित्यादिशालिनी ॥ ३४ ॥ राज्यश्रियस्त्रयः पुत्रा वीसलोथ यशोभटः।। वोचिस्थश्चेति संजाता गुण-रत्नौघ-रोहणाः ॥ ३५ ॥ राज्यश्रीरन्यदा तत्र शुद्धश्रद्धानबंधुरा । इत्येवं चिंतयामास निस्समानगुणोज्वला ॥ ३६ ॥ प्राणा वायुमयाः स्वभावतरला लक्ष्मीः कटाक्षस्थिरा स्वाम्यं बालविलंबितातनुशिलावस्थानदुःस्थं सदा । पाठांदोलितदीप-कुड्मलदलप्रायः प्रियैः संगम स्तन्नास्तीह किमप्युदारमनसामाशामिवेशास्पदं ॥ ३७ ॥ तल्लब्ध्वा मनुजेपु जन्म विमलं संप्राप्य देशादिकं श्रुत्वा श्रीजिनचंद्रवाचमुचितां श्रीमद्गुरूणां पुरः। स्वाधीने च धने च संगतवति स्वीये कुटुंबे सतां युक्तो धर्मविधान एव सततं कर्तुं महानुद्यमः ॥ ३८ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy