SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ No. III SANGHA BHANDARA 341 चारित्राचरणैकधीरमनसो गीतार्थचूडामणेः विद्यानां मणिदर्पणस्य शामिनः सेव्यस्य पुण्यार्थिभिः । यश्व श्रीमुनिचंद्रसूरिसुगुरोः पादांबुजं सेवितुं वांछन् मत्सरवर्जितः ः सुरवधू - - प्राणेश्वरत्वं गतः ॥ १४ ॥ निःसीमधर्म्मनिलयं कलितं सदर्थैः सद्वृत्तताविरहितं न कदाचनापि । ख्यातं जगत्रयमिवापदनंतसत्त्वं पूर्णी सुतत्रयमतीवगभीरमध्यं ॥ १५ ॥ लक्ष्मीविलासकलितो बलिदर्पहंता सत्यानुरागिहृदयो विधिपक्षपाती । लक्ष्मीधरः सुतवरोजनि तत्र मुख्यश्चित्रं तथापि न जनार्दनतामुपेतः ॥ १६ ॥ आराधितश्री जिननेमिनाथः संपादितानंतखलप्रमाथः । आसीद् द्वितीयो धनदेवसंज्ञः सदा सदाचार - विचार - विज्ञः ॥ १७ ॥ यस्यासमान - फलकांतगुणाभिरामं संरुद्ध - रंध्रमविलाभिजल-प्रवेशं । सदूधीवरैरनुगतं मति - यानपात्रं गंभीरकार्य - जलधेः परभागमेति ॥ १८ ॥ विवेकिजनवल्लभः स्फटिकशैल - शुद्धाशयः कलंकविकलः सदा सकललोक संतोषदः । बभूव जिनपूजकः सुगुरुवंदकः श्रावक स्तृतीय इह नंदनः सुजननंदनः श्रीधरः ॥ १९ ॥ तत्रोज्जलस्य समजायत धर्मपत्नी मंदाकिनी सलिल - निर्मलशीलयुक्ता । लक्ष्मीः समस्तजनवांछितदानदक्षा चित्रं न निर्गुणरता न चलस्वभावा ॥ २० ॥ उल्लासकाः सुमनसां विदितानुभावसंपादकाः समयिनां बहुलं फलानां । नित्यं निजऋमयुता भुवनप्रसिद्धाः पुत्रास्तयो ऋतुसमाः पडिहो जाताः ॥ २१ ॥ कारुण्य- रत्नांकुर - मेरुशैलः सौजन्य - पीयूप- रसांबुराशिः । आद्यः सुतोजायत वर्द्धमानस्तेषां कलाभिः परिवर्द्धमानः ॥ २२ ॥ अपारगांभीर्य निवासभूमिर्विद्वत्-सुश्राद्धादिजनोपकारी । अनल्पलावण्ययुतो द्वितीयः पुत्रः पवित्रोऽजनि मूलदेवः ।। २३ ।। कीर्तेः पात्रं निजगुरु गिरां पालने लब्धलक्षः स्थानं नीतेर्जन कनयनानंददायी सदैव । दूरीभूताखिळख.. ...... लो जातवान् पुत्ररत्नं तार्त्तीयकः कुशलवसुतावल्लभो रामदेवः ॥ २४ ॥ बभूव कारुण्यपरिग्रहाय कृताग्रहः कुग्रह - दर्पहंता । विपत्ति - संपत्तिसमानुरागी यशोधरो वीरिमधाम तुर्यः ॥ २५ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy