SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ 840 PATTAN CATALOGUE OF MANUEÓRIPTS सच्छायः सरसः सपत्रनिचयः शाखा-प्रशाखांचितः पीनस्कंधविराजितः प्रतिपदं संतापहारी सतां । चिंतागोचरचारि वस्तुविसरं दातुं समर्थोऽर्थिनां तत्राजायत कल्पपादपसमः श्रीजावडः श्रावकः ॥२॥ तस्याभवन्निखिलकल्मषदोषहीनास्तिस्रः प्रियात्रिपथगा इवं पूरितशिा। लोकत्रयप्रथितशीलयुतास्तथापि प्राप्ताः कदाचन न दीनपथातिथित्वं ॥ ३ ॥ जिनदेवी बभूवासामाद्या मधुरवादिनी । स्त्रैणोचितगुणोपेता जिनेंद्रपदपूजिका ॥ ४ ॥ राकासुधारश्मिसमानशीला शुद्धाशयानंदितदीनंलोका । रूपश्रिया तर्जितकामकांता कांता द्वितीयाजनि सर्वदेवी ॥५॥ कुंदावदातधु तिशीलशालिनी मातेव सर्वस्य जनस्य वत्सला। पूर्णी तथा पूर्णमनोरथस्थितिर्जाता तृतीया गृहिणी विवेकिनी ॥ ६ ॥ यः सर्वदा सर्वजनोपकारी गंभीर-धीरो जिनधर्मकारी । तं दुर्लभं दुर्लभमल्पपुण्यैः प्रासूत तत्र प्रथमा तनूजं ॥ ७ ॥ संजातौ भुवि विख्यातौ सर्वदेव्याः सुतावुभौ । उदयाचलचूलायाः सूर्या-चंद्रमसाविव ॥ ८ ॥ आधस्तयोः सज्जनचित्तहारी नयी विनीतः सकलोपकारी । जिनेंद्रपूजाविहितानुरागः साधुप्रियोऽजायत देवनागः ॥ ९ ॥ द्वितीयश्च गुणावासः सत्य-शौचसमन्वितः। कलावानुज्वलो जातः कुल-कैरव-चंद्रमाः ॥१०॥ सूरेः श्रीजिनवल्लभस्य गणिनः पादप्रसादेन त___ लब्धं येन विवेक-यानमसमं दुःप्रापमल्पाशयैः । येनाद्यापि सुखं सुखेन कृतिनः संसार-वारांनिधेः पारं यांति परं निरस्तसकलक्लेशावकाशोदयाः ॥ ११ ॥ शिरसि नमनं यः साधूनां दृशोरतिशांततां वदन-कमले सत्यां वाणीं श्रुतौ श्रवणं श्रुतेः । मनसि विमलं बोधं पाणी धनस्य विसर्जनं जिनगृहगतिं पादाभोजे चकार विभूषणं ॥ १२ ॥ प्रालेयशैलशिखरोज्वलकांतिकांतश्रीनेमिनाथभुवनच्छलतश्च येन । मूर्तः स्वधर्म इव सर्वजनीयदातुराविष्कृतः सकललोकहितावहेन ॥ १३ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy