SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ 332 PATTAN CATALOGUE OF MANUSCRIPTS तत्पट्टमौलिमणितामभजद् भवार्तिभीतात्मनामभयदोऽभयदेवसूरिः । पापातपापगममन्वमातपत्रीभूयांगिनां शिरसि यस्य करश्चकार ॥ ११ ॥ तस्योपदेशपदपेशललेशमाप्य वारांमुचेव कियदेव पयः पयोधेः । श्रीआसडेन कविना जनितोपदेशकंदल्यसावसुमतामुपकारहेतोः ॥ १२ ॥ किं च । तत्पट्ट-पर्वतमलंकुरुते स्म कर्म-ज्यालावली-हरियुवा हरिभद्रसूरिः । भूना यदीयचरणोपनतैरशोभि मुक्ताफलोज्वलतमैर्जगती यशोभिः ॥ १३ ॥ शिष्यस्तस्य विभोर्नमस्यचरणांभोजस्य जज्ञे महा साहियोपनिपनभोंगण-रविः श्रीबालचंद्रः कविः । यं स्वप्नांतमुपेत्य तदृढतरानुध्यानतुष्टा जगौ मत्पुत्रस्त्वमसीति शीतलगिरा देवी गिरामीश्वरी ॥ १४ ॥ इतश्च । आसडस्य मृडस्येव गौरी-गंगे बभूवतुः । पृथिवीदेवी-जैतलदेव्यौ द्वे तस्य वल्लभे ॥ १५ ॥ जैतल्लदेव्यां तनयावभूतां द्वावेतयोराजडनामधेयः । ज्येष्ठोतिविद्वान् कवयोभिदध्युर्खाल्येपि यं बालसरस्वतीति ॥ १६ ॥ दुर्वृत्तानां शंकनीयः कनीयान मंत्री जैत्रः सिंहवजैनसिंहः । मुद्रा सव्या त्यागिनोऽस्यापसव्या चापव्यापाराद्भुतस्याप हस्तं ।। १७ ॥ अरिसिंह इति च पृथिवीदेव्यां कर-पुष्करश्रवदानः । गुरुगिरिपरिणतकर्मा गज इव कलभोंगजः समभूत् ॥ १८ ॥ मंत्रिणो जैत्रसिंहस्य पत्नी जल्हणदेव्यसौ । त्रीनसूत सुतान वेदानिव वाणी प्रजापतेः ॥ १९ ॥ आशापाल इति प्रसिद्धगरिमा तेषां गरीयानयं मध्यश्चाजय इत्यनुगुणाध्यात्मैकधन्याशयः । चक्रे ज्ञानविलासकीर्तनमसौ शास्त्रं पुमर्थात्मकं पुण्यात्माऽमृतपाल इत्यसमधीपात्रं तृतीयस्त्वयं ॥ २० ॥ अरिसिंहस्य तथाल्हणदेवीति निवीतकलुपा पत्नी । रत्नत्रयमिव जिनवागजीजनत् तनुजनित्रितयं ॥ २१ ॥ आशाधरस्तेपु सुधीरधीती समग्रशास्त्रेपु किलानिमोऽस्ति । विमध्यमश्वाल्हणसिंहनामा प्रज्ञागरिष्ठोऽभयदः कनिष्ठः ॥ २२ ॥ इत्येवं स्वकुटुंबवर्गसहितेनाभ्यर्थितो मंत्रिणा श्रीजैत्रेण विवेकिना निजपितुः श्रेयःश्रियो वृद्धये ।
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy