SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ 330 PATTAN CATALOGUE OF MANUSCRIPTS व्याख्या-एतत् प्रकरणं मया रचितं । केन कृत्वा ? जिणपवयणसारसंगहेण जिनानां प्रवचनं सिद्धांतस्तत्र सारभूतानां पंचानामपि व्रतानां चतुर्णी च धर्मागानां दान-शील-तपो-भावनारूपाणामपरेषां च चतुर्णां क्षांति-मार्दवार्जव-संतोषाणां संग्रहः एकत्र मीलनं जिनप्रवचनसारसंग्रहः तेन । अन्यदपि प्रकरणमुत्सवो विवाहादिः सारसंग्रहेण द्रव्योच्चयेन क्रियत इत्युक्तिलेशः । किं करोतु ? दिसउ ददातु । कथं ? सम्मं सम्यक् । किं तत् ? संमत्तवियासडंबरं सम्यक्त्वस्य सुदेव-सुगुरुसुधर्मप्रतिपत्तिरूपस्य विकाशाडंबरो विस्तरस्तं सम्यक्त्वविकाशाडंबरं । केभ्यः ? भवियाणं भव्येभ्यः भद्रकेभ्यः इति कवेरुक्तिः । वयं तु ब्रूमः-एतत् प्रकरणं भव्येभ्यः आसडं आसडनामानं सुकविं वरं प्रधानं दिशतु कथयतु । यतः कवयः काव्यकीर्तनैरेव परां प्रसिद्धिमायांतीति । किंविशिष्टमिदं प्रकरणं ? सम्मत्तवि 'वी प्रजनान]- कात्यशन-खादनेषु' इत्यनेन सम्यक्त्वं वेति समुद्दीपयति अवगमयति वा सम्यक्त्व वि किपा सिद्धमिति । अथ प्रशस्तिगाथामाहसिरिभिल्लमालनिम्मलकुलसंभवकडुयरायतणएण । एय आसडेण रइयं गुरूवएसाणुसारेण ॥ १२५ ॥ व्याख्या-इति पूर्वोक्तमुपदेशकंदलीनामधेयं प्रकरणं आसडेन रचितं रचनामानीतं । किंविशिष्टेन ? सिरिभिल्लमालेति निर्मलं निर्दूपणं च तत् कुलं निर्मलकुलं श्रिया उपलक्षितं च तत् भिल्लमालाख्यं निर्मलकुलं च तत् तथा तस्मात् संभवति श्रीभिल्लमालनिर्मलकुलसंभवः स चासौ कटुकराजस्तस्य तनयः पुत्रो यः स तथा तेन । नद् यथा श्रीभिल्लमालनामा हिमाद्रिरिव गोत्र शेपरो जयति । यस्य प्रजा महेशप्रिया न कैर्वर्ण्यतेऽपर्णा ? ॥ १ ॥ गंगाप्रवाह इव तत्र बभूव पुण्यभावोत्कटः कटुकराज इति प्रसिद्धः । यः सर्वदा जिनपदाश्रयणप्रवीणमाहात्म्यतः पदमदत्त भवस्य मूर्ध्नि ॥ २ ॥ अर्णोलतेति (आनलदेवी) दयिताऽस्य बभूव सीता रेखास्पदं वसुमतीव सती बभौ या व्योमावनीव च जिनत्रिपदीविविक्ता पुन्नागनंदनवती त्वमरावतीव ॥ ३ ॥ तयोरजनिषातां द्वौ सुतावासड-जासडौ । सत्पथं न व्यलंघेतां धु? धर्मरथस्य यौ ॥ ४ ॥ आसडः कालिदासस्य यशो-दीपमदीपयत् । मेघदूतमहाकाव्यटीकास्नेहनिषेचनात् ॥ ५ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy