SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ 328 PATTAN CATALOGUE OF MANUSCRIPTS जिनालययशः सिद्धि - दान-पुण्यादिकर्मणां । समुद्धरणधौरेयो द्वितीयोभूत् समुद्धरः || ५ || दानादिगुणगणाराम यशः कुसुम सौरभैः । वासिताशोऽपरो जात आशाधरस्तृतीयकः ॥ ६ ॥ समुद्धरस्य निर्माया जाया सौभाग्यशोभिनी । शोभिनीत्याख्यया जाता शीलालंकारधारिणी ॥ ७ ॥ धर्मद्रुमस्य मूलाभो जज्ञे मूलः सुतस्तयोः । पुत्री सरस्वती लीलू जातौ ब्राह्मी - श्रियाविव ॥ ८ ॥ गेहिनी मूलकस्यास्ति नाल्ही गंगेव देहिनी । तयो रत्नत्रयाधाराः पुत्राः संजज्ञिरे त्रयः ॥ ९॥ आद्य वराकनामा द्वितीयश्छाहडः सुधीः । सीहडस्तृतीयः ख्यातः पुमर्था मूर्तका इव ॥ १० ॥ पुत्रिकाश्च तयोस्तिस्रो जाताः शक्तित्रयोपमाः । चांपला कर्मी कर्पूरी सत्य - शील- दयान्विताः ॥ ११ ॥ वइराकस्य सद्भार्या नय-विनयगुणान्विता । विस्तिणिर्वस्तु तत्त्वज्ञा स्वजनानंददायिनी ॥ १२ ॥ तस्या जाताविमौ पुत्रो धर्म - शीलपरायणौ । आयो मदन एवासौ द्वितीयः कर्मसिंहकः ॥ १३ ॥ अथाशाधरकांताभूत् खेतुः क्षेत्रं सुकर्मणां । लक्ष्मीधरस्तयोः पुत्रो लक्ष्मीव (घ) र इवापरः ॥ १४ ॥ रूपला रुक्मिणीवास्ति तस्य सद्धर्मचारिणी । तत्सुतो हरपालाख्यः च्छाडू दक्षा च तत्सुता ॥ १५ ॥ एवं स्वकुटुंबयुतः साधुर्मूल स्वमातृश्रेयसे । श्रीमन्महावीरचरित्रं गृहीतं निजगुरुभिर्वाचयांच ॥ १६ ॥ तस्मिन् विस्मयकारिहारिचरितं कृष्णर्पिशिष्यः पुरा चंचश्चंद्र कुलध्वजः समजनि श्रीनन्नसूरिः प्रभुः । उद्गीते दिवि किंनरैर्यदमलश्लोके सुरा धुन्वते मूर्ध्नः कांचन किंकिणी कवचितश्रोत्रं गजास्यं विना ॥ १७ ॥ Colophon: संवत् १३६८ वर्षे कोलापुर्यां श्रीमहावीरचरितं श्रीनभसूरिभिः सभाव्याख्या व्याख्यात श्रावकमूलू- - वइरासकं ॥ ६ ॥
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy