SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ No. III SANGHA BHANDARA (२) शान्तिनाथचरित by अजितप्रभ. [८४ ] Pras'asti of the Donor: प. १६६ विश्वसेनकुलोत्तंसोचिरादेवीतनूद्भवः । श्री शांतिनाथ भगवान् दद्यान्मंगलमालिकां ॥ १ ॥ संघाधिपत्यादिपदप्रतिष्ठासमन्वितैर्भव्यजनैर्विशाल: ः । दानादिपुण्योदयजन्मभूमिः श्रीमालवंशो विदितो जगत्यां ॥ २ ॥ बभूव तत्रांबुधितुल्यरूपे परोपकारादिगुणैः प्रसिद्धः । कल्पद्रुकल्पोर्थिजनस्य धीमान् रत्नाभिधानोपररनतुल्यः ॥ ३ ॥ सहजाकः सुतस्तस्य रेजे राजसभोचितः । धर्मकृत्यरतो नित्यं निजत्रंशविभूषणः ॥ ४ ॥ तस्यात्मजो धार्मिकचक्रचूडामणिः सुधाकारगिरां निवासः । सतां हि सेव्यः किल नागसिंहः कुलोद्यायैव कृतावतारः ॥ ५ ॥ साहादना नाम तदंगनाभूत् साहादवक्त्रा गुरुदर्शनेन । यया चतुष्कं सुषुवे सुतानां स्ववंशभारोद्धरणैकधीरं ॥ ६ ॥ हरिराजो विवेकेन रराज हरिविक्रमः । स्थिरपाल: स्थिरप्रेमा साधुवर्गे विशेषतः ॥ ७ ॥ प्रतापमल्लः सुभगः सद्दाक्षिण्य महोदधिः । चतुर्भुजश्चतुर्धर्मसमाचारपरायणः ॥ ८ ॥ भगिनी सुगुणा नाम सद्गुणानां निकेतनं । लाखान पनि (णि)न्ये कमलेव मुरारिणा ॥ ९॥ तथा सलवणा नाम स्वसा लावण्यशालिनी । स्वकीयेन च शीलेन पवित्रितनिजान्वया ॥ १० ॥ श्रीपद्मप्रभसूरीणां स्वगुरूणां मुखांबुजे ( जात् ) । शुश्रावेति महाभक्ता श्राविका सुगुणा गिरं ॥। ११ ॥ जिनेंद्र बिंबं भवनं जिनस्य संघ: स पूज्यश्च चतुः प्रकारः । सत्पुस्तकं तीर्थकरावदातविभूषितं यः कुरुते सुबुद्धिः ॥ १२ ॥ बोधबीजं भवेत् तस्य निश्चलं च भवांतरे । केवलज्ञानलाभश्च ततो मोक्षसुखं पुनः ॥ १३ ॥ आकर्ण्य वाचं सुकृतैकबुद्धिः श्रीशांतिनाथस्य जिनेश्वरस्य । पुण्यावदातेन युतं गुरुभ्यो ददौ शुभं पुस्तकमुत्तमं सा ॥ १४ ॥ 325
SR No.011005
Book TitleDescriptive Catalogue of Manuscripts in Jain Bhandars at Patan
Original Sutra AuthorN/A
AuthorLalchandra B Gandhi
PublisherOriental Research Institute Vadodra
Publication Year1937
Total Pages591
LanguageEnglish
ClassificationCatalogue
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy